SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1988 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF अग्निष्टोम ब्रह्मत्वप्रयोगप्रारम्भः । यजमानपत्नीभ्यां सहाग्न्यागारं प्रविश्योत्तरेण विहारं प्राङ्मुख उपविशति । तन्म ऋध्यतामित्युक्ते, तत्त ऋध्यतां तत्ते समृध्यतां तत्ते सम्पद्यतां काम इति प्रब्रूयात् । सोमप्रवाकेनामुकशर्मणः सोमो भविष्यति तत्र भवता ब्रह्मत्वं कर्तव्यमित्युक्ते तं परिपृच्छेत् । को यज्ञ इति । ज्योतिष्टोमोऽग्निष्टोमस्सोम इत्युक्ते, क ऋत्विज इति पृच्छति, अमुकशर्मादय इत्युक्ते, का दक्षिणा इति पृच्छति, सुरूपा बहुपणमूल्या द्वादशशतं गाव इत्युक्ते, चन्द्रमा मे ब्रह्मा स मे ब्रह्मा ब्रह्माणं स्वाममुकशर्माणं वृणे, इति यजमानेन वृतो जपेत् । महन्मे वोचो, भर्गो मे वोचो यशो मे वोचस्सोमं मे वोचः क्लृप्तिं मे वोचो भुक्ति मे वो सर्वं मे वोच इति जपित्वा, चन्द्रमास्ते ब्रह्म, स ते ब्रह्मा, ब्रह्माहं ते मानुषः । इति प्रतिजानीते । तन्मावतु तन्मा विशतु तेन भुक्षिषीय इति याजयिष्यञ्जपति । ऋत्विजो वृत्वा मधुपर्कमाहरेत् ॥ End: अथोदयनीया अर्थलुप्तवर्ज प्रकृतिवत् । वैश्वदेववद्वाजिनभक्षणं । होतरुपह्वयस्वेत्यादि यजमाना पहवपर्यन्तं, यन्मे रेतः प्रसिच्यते यद्वा मे अपि गच्छति, यद्वा जायते पुनस्तेन मा शिव मा विशते न मा वाजिनं कुरु । तस्य ते वाजिपीतस्यो [पहूतस्यो] पहूतो भक्षयामि इति प्राणभक्षं (भक्ष) येत् । अयायेत्यादि संस्थाजपान्तम् । उदवसानी - ययामिष्टयां प्रकृतिवत् । पूर्णाहुतिपक्षे न किञ्चित् । For Private and Personal Use Only
SR No.020230
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 05
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages525
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy