________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSCRIPTS
2888
Substance--Paper. Size--114 x 3} inches. Sheets--11. (21-31). Lines--9 to a Page. Script-Devanāgarl. No. of Granthas--200. Author--?. Complete. Beginning:
महाव्रतस्य क्लप्तिः । 'व्रतस्य साग्निचित्यस्य प्रयोगः सम्प्रधृष्यते । सूत्रबाझोपकल्पोपग्रन्थभाष्यानुसारतः ॥'
पञ्चविंशोऽनिष्टोमः सर्वजिता वै देवाः । सर्वमित्यनुवाकेन विहितः । महावतस्य पृष्ठ उपाकृत इत्यादिना सूत्रकारेण चोक्तः । तस्य षडुपसदः प्रथमोपसदन्ते षडहे सुत्यामिति सुब्रह्मण्यायां विशेषः । उत्तरेष्वहस्सु पश्चाहे मुत्यादि क्रमेणाह्वानम् । अग्नौ चीयमाने पश्चिमेन पुच्छं गत्वा यत्र वोपदध्युः तत्र तिष्ठेरन पुष्करपलाश उपधीयमाने सत्यमिति व्याहृतिसामत्रिर्गायेत् यजमानमनुग्छन्दः प्रजापतिः सत्यमेव देवता हिरण्मये पुरुषे उपधीयमाने पुरुषस्य व्याहृतिसाम त्रिर्गायेत् । पुरुषो देवता प्रजापतिऋषिः । तिसृषु च स्वयमतृण्णास्पधीयमानासु भूर्भावस्वरिति त्रीणि त्रिर्गायेत् ॥
End:
तत्रोत्तमे अनुगाने पुत्रा औहो होहा इति यक्षरम. स्तावः। रोदा सोही हिंम्मा इति प्रतिहारः । विभाग्यानि पूर्ववत् । आद्यान्ते विभाग्येति चतुर्थः पक्षः ततयोदितीयतृतीयपक्षयोरिव भक्तयः । द्वितीयाद्यानुगानत्रयस्य प्रथमभक्षवदेव भक्तयः । क्थोत्पुनः द्वितीयमनुगानं सस्तोमपदविभाग्यम् वदन्ति । तदा हा उ वा वि: अमे वाव
For Private and Personal Use Only