________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSORIPTS
12293 विध्यपराधे प्रायश्चित्तिः ॥ विधिशब्देन विहितमुच्यते । तस्याकरणेऽन्यथाकरणे प्रायश्चित्तिः कर्तव्या । प्रायोविनाशश्चित्तिः सन्धानं विनष्टसन्धान प्रायश्चित्तिरित्युक्तं भवति । तथा च विध्यपराधे संति तदर्थे विशेषतो यद्विहितमस्ति तदेव कर्तव्यम् । नास्ति चेयाहृतिहोमः कर्तव्यः। एतदेव सर्वप्रायश्चित्तमुच्यते । एवं च सति यथा कथञ्चिद्विधिसम्पादने प्रायश्चित्ताभाव उक्तो भवति प्रायश्चित्तकालस्तु निमित्तानन्तरमेवेत्युत्सर्गः ॥ ऐष्टिके तन्त्रे प्रधानस्विष्टकत्समिष्टयजुोमावा प्रागिति बोधायनः । विहितस्य द्रव्यस्य स्वरूप तो भावे प्रतिनिधिः स्वीकार्यः। कचित्स्वरूपसत्तायामपि प्रकृतकार्याशक्ती प्रतिनिधिरेव स्वीकायः । तथा चार्थद्रव्ययोर्विरोधे अर्थो बलीयानिति संचितं भवति । इदं चापरं सामर्थ्य सति गुणसंपादनार्थ न प्रति. निधिरुपादातव्यः । द्रव्य गुणविरोधे द्रव्यं बलवत् । एतदुक्तं भवति , यत्कार्यार्थतया यद्विहितं तस्य तत्कार्याशक्तौ तत्प्रतिनिधिरूपं तत्कार्यकरणाय स्वीकार्यम् , तथा च प्रतिनिधिप्रयोगऽपि विहितस्वरूपापचाराद्विध्ययपराधश
या प्रायश्चित्तं न कर्तव्यम् , तत्र स एव विध्यर्थः फलितो भवतीति । तथा विनष्टसंधानं द्विविधम् तत् प्रत्यक्षमतीन्द्रियश्च । तत्राद्यं यथायतनादपगतस्य वह्वः पुनरुत्थापनं स्कन्नस्य वा हविषो ग्रहणार्थस्य पुनर्ग्रहणम् । द्वितीय तु होमजपादिभिः । यत्रातीन्द्रिये सन्धाने होमा
288
For Private and Personal Use Only