________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2117
SANSKRIT MANUSCRIPTS 'अथारुणकेतुकस्याग्नेः प्रयोग उच्यते। .. तत्र तावत् तत्र “भद्रं कर्णेभिः" इति प्रश्नसमधीताना मन्त्राणामारुणकेतुकेऽग्नो विनियोजकानि बोधायनसूत्रवाक्यानि भट्टभास्करमिश्राः माधवाचार्या वर्णानुपूर्वतोऽर्थतश्च परस्परविरुद्धान्युदाहरन्ति ॥ तथा बोधायनीयकेशवस्वमी तदुभयविरुद्धमेवारुणकेतुकप्रयोगमाचष्टे । परिदृश्यमानबोधायनसूत्रे तु तत्रितयविरुद्धप्रयोगोऽवगम्यते । बोधायनाचार्यशैली च तत्र न दृश्यते । प्रत्यक्षब्राह्मणविरोधश्च तत्र तत्र बहुलमुपलभ्यते । तत्र दिङ्मात्रं प्रदर्शयामः । तत्र तावत् "स्मृतिः प्रत्यक्षम्" इत्यष्टौ दिश्याः । “शुक्रन्ते अन्यत्" इति चति माधवीये । केशवीये परिदृश्यपानसूत्रे च दृश्यते । भट्टभास्करीये तु “अथोभयतो दर्भस्तम्बस्याष्टावुपदधाति । स्मृतिः प्रत्यक्षमिति" इत्युक्त्वा “शुक्रन्ते अन्यत्" इत्येषा ऋक् “शुक्र- . कृष्णे संवत्सरस्य " इत्यादि ब्राह्मणशेषत्वेन व्याख्याता । न तूपधानार्थत्वेन । तथा 'आरोग" इत्यष्टौ पदशोधने(त्ते)शिल्पमिति चेति । माधर्वाये परिदृश्यमानसूत्रे च दृश्यते । भट्टभास्करीयेतु अथ दक्षिण(त) उदीचीरास्मन्युपदधाति आरोगादिभिः सप्तसूर्यनामभिरित्युक्ता । "कम्पोऽष्टम" इत्यादिबाह्मण शेपत्वेन “ यत्ते शिल्पम्" इत्येषा व्याख्याता । तथा परिदृश्यमानसूत्रे पास्वपि चितिषु सचितासु अग्निप्रणयनमाम्नातम् । ब्राह्मणे तु । "ब्रह्मवादिनो वदन्ति । तस्मात्मणेतेयमग्निश्चीयत" इति
266
For Private and Personal Use Only