________________
Shri Mahavir Jain Aradhana Kendra
1790
www.kobatirth.org
A DESCRIPTIVE CATALOÄUE OF
॥ आपस्तम्बदर्शपूर्णमासप्रयोगः ॥
2188. ĀPASTAMBADARŚAPŪRNAMĀSA
Beginning:
Acharya Shri Kailassagarsuri Gyanmandir
PRAYOGAH.
Burnell's Catalogue No. 3825. Page 23. Right column. Substance-Paper . Size-11x 5 inches. Sheets--~~ 59. Lines-9 to 11 to a Page. Script-Devanagari. No. of Granthas-1100. Author-(?). Complete.
श्रीगणेशाय नमः ॥
अथातो दर्शपूर्णमासौ व्याख्यास्यामः । प्रातरग्निहोत्रं हुत्वाऽपरेण गार्हपत्यं दर्भेष्वासीनो दर्भान्वारयमाणः । पन्या सह विघ्नेश्वरं ध्यात्वा । प्राणानायम्य | देशकालौ सङ्कीर्त्य | परमेश्वरप्रीत्यर्थ दर्शन यक्ष्ये इत्यमावस्यायां । पौर्णमासेन यक्ष्ये इति पौर्णमास्य सङ्कल्पयत्येवं पत्त्यपि कामे यजमानः केशश्मभु वापयते स्नात्वा अहतं वासः परिधाय विद्युदसि विद्यमे पाप्मानमृतात्सत्यमुपैमि । यक्ष्यमाणोऽप उपस्पृशति । एवं पत्न्यपि । तदिदं सर्वयज्ञेषूपस्पर्शनं भवति । अस्यामिष्टयां अध्वर्यु स्वां वृणे | अध्वर्यु वृणीते । अध्वर्युः वृतोऽस्मि । करिष्यामिं । एवं ब्रह्माणं होतारमानीधं च । वृतोऽस्मि करिष्यामीति प्रतिवचनम् । आहवनीयार्थमग्निमुद्धृत्य निधाय तूष्णीं दक्षिणा प्रणीय तूष्णीमाहवनीयं प्रणयति ॥ देवा॑ गातुविदो गा॒तुं य॒ज्ञाय॑ विन्दत । मन॑स॒स्पति॑ना देवेन॒ वाता॑य॒ज्ञः प्रयु॑ज्यताम् ।
1
For Private and Personal Use Only