________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1885
BANSKRIT MANUSCRIPTS न व्याख्यातं कैश्चिदपि सूत्रमेतत्पुरातनैः । इति मत्वा गुणो ग्रायः सद्भिर्निर्मत्सरैरिह ।। मातृदत्तप्रयोगस्तु नैतत्सूत्रार्थसम्पतः । आपस्तम्बानुसारीभि(हि )तत्र तत्र प्रकाश्यते ॥ नामूलं लिख्यते किञ्चिमानपेक्षितमेव च । किञ्चिल्लेखप्रात्तस्याप्यस्ति दोषो पहचरः ।
अन्विण्य गुणलेशं तु सन्तस्तुष्यन्तु पण्डिताः । वस्वग्न्यद्रिक्षिति(१७३८)मितशके वाञ्छेश्वर सुधीः ।। हिरण्यकेशिनां सूत्रं व्याख्यातुमुपचक्रमे ॥
इह खलु धर्मार्थकाममोक्षेषु पुरुषार्थेषु धर्म एव मुख्या पुरुषार्थः । इतरेषां तन्मूलकत्वात् ।
तथा प्रयोगक्रमस्य द्रव्यदेवतादिस्वरूपस्य प्रायधिचस्य विप्रकीर्णपरप्रकरणगतनानाशाखोपसंहारस्य सिद्धव. निर्देशान्यथानुपपत्तिकल्पितविधिस्वरूपस्य च मन्दबुद्धि मिरवबोसुमशक्यतया लोकोपकारार्थपनुष्ठानोपयोगितया सूत्र रचवाबभूव हिरण्यकेशी भगवान् सूत्रकारः --'यज्ञ व्याख्यास्याम' इत्यादि । तत्र यज्ञशब्दो यागं करोमीत्यनुव्यवसायसिदविलक्षणविषयिताचालिमानसिकसङ्कल्प. वाची तात्रसाल्पनिजातिविशेषवाची । न हि देवतोहेशेन द्रव्यत्यागो याग इति वक्तुं शक्यम् । शिवाय गा ददामीत्यादावतिप्रसङ्गात् । विस्तृतञ्चैतत्सामान्य
For Private and Personal Use Only