________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1683
SANSKRIT MANUSCRIPTS : तस्य नप्ता माधवार्यपात्रः श्रीनरसिमतः॥ लब्धजन्माऽधीतशास्त्रः श्रीमान्वाञ्छेश्वरः सुधीः । श्रीशाहराजेन्द्रपुरे श्रीशाहराजेन्द्रविष्टपैः सर । कृतवासो विमलमतिः साम्बपदद्वन्द्वभक्तिनिरतश्च ॥ प्रख्यातमहिषशतकप्रौढकवेः कुलललामभूतोऽसौ । आचार्यस्खामिवः पाठनपीठे प्रतिष्ठितो यः प्राक् ॥ आमूलाग्रमधीताध्यापितषर्शनीरहस्यश्च । सरसकमनीयवचनः शरभमहाराजनिकटवर्तीच ॥ कविसार्वभौमकाव्ये पदवाक्यतदर्थसंशमैर्दोषैः । दोषोल्लासोदाहृतिरेकत्रैव स्फुटं प्रकाशिता येन ॥ मलमासनिर्णयपटुा खण्डितदुर्वादिगर्वधिषणच । साम्बसदाशिवचरणद्वन्द्वसपर्याविदितवेदार्थः ।। इति स्तुवन्ति यं नित्यं वासुदेवादयस्त्वसौ । काशीयात्रेच्छया गच्छन्कुष्णातीरनिवासिभिः ।। पट्टवर्धनवंशस्थैः प्रभुभिः सङ्गतो मुदा । तेषां वंशक्रमोऽप्यत्र किञ्चित्सङ्गम लिख्यते ।। चित्तपावनजातीयो हरिनम्मा महानभूत् । यो गणेशप्रसादेन प्राप राज्यभियं कुले ।। तस्य पुत्रो महानासीद्रामचन्द्राभिषः प्रभुः । सार्वभौमातु यो लेभे राज्याश्रियमनुत्तमाम् ।। सुतः परशुरामाख्यस्तस्यासीद्धार्षिकोचमः । तुभद्रा समारभ्य गोदान्तं शौर्यनिर्जितम् ॥
For Private and Personal Use Only