________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1878
SANSKRIT MANUSCRIPTS मेधां बोधायनो वो वितरतु सहित षष्टिसाहस्रशिष्यः
यस्यापस्तम्ब एकाधिकशतयजुषां पारगो मुख्यशिष्यः । सूत्रं प्रायुक्त नैकक्रमविधिनिपुणाध्वर्युनानाप्रयोगव्यक्तिज्ञानोपयुक्तस्फुटमृदुगहनप्रौढसन्दर्भगर्भम् ॥ ४॥ कल्पामृतं क्षितिसुरप्रकराय योऽदात्
वेदाम्बुराशिमधिमथ्य निजप्रभावात् । बोधायनाय मुनिवन्दितपादपद्म
द्वन्द्वाय कण्वतनयाय नमोऽस्तु तस्मै ॥ ५ ॥ वीणावादनचतुरा वाणी येणीकुलक्षणा निपुणा । शरणागतजनभरणा करुणानिलया ममास्तु वाग्भूत्यै ॥६॥
॥ श्रीसुब्रह्मण्याय परब्रह्मणे नमः ॥ श्रीमत्कवेरजातीरं विद्वदृन्दोपशोभितम् । अत्युत्तमशिवक्षेत्रविष्ण्वादिस्थानमस्ति हि ॥१॥ तब तापुरमाम राजस्थानमनुत्तमम् । राजानः प्रथितास्तत्र भोसलीयान्ववायजाः ॥ २ ॥ तेषु राजा महानासीच्छरभेन्द्रस्सुधार्मिकः । तस्य पुत्रो महानस्ति श्रीशिवाजिमहीपतिः ॥ ३॥ नियोजयामास बुधान् लोकानां हितकाम्यया । रच्यन्तां बहवो ग्रन्थाः नानाशास्त्रार्थसङ्ग्रहाः ॥ ४॥ इति श्रुत्वा वचस्तस्य कुर्वन्ति विबुधा प्रदा। केचियाकरणेऽकुर्वन्केचिन्न्याये तथापरे ।। ५॥ वैद्यशास्त्रे तथा चक्रुः मन्त्रशास्त्रेषु केचन । एवङ्कुर्वत्सु विद्वत्सु शाहजीन्द्रपुरे वसन् ॥ ६॥
For Private and Personal Use Only