________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1648
A DÉBORIPTIVE OATALOGUE OF आरब्ध आचार्येण। वाक्यसम्बन्धश्च गर्भाधानादिसंस्कारैः संस्कृतोऽधीत्य वेदान्न्यायतः कृतदार आहितामिरामावा. स्येनेति चोदितस्य कर्मणोऽधिकारी। तानि च कर्माणि नानाविधानि । तत्र दर्शपूर्णमासानिहोत्रज्योतिष्टोमप्रवर्याण्यपूर्वाणि । तत्र दर्शपूर्णमासविकारा इष्टयोऽनीषोमीयः पशुः, ज्योतिष्टोमविकारा एकाहद्वादशाहाश्च। अग्निहोत्रं न प्रकृतिः। प्रकृतं(तिः) नाम सर्वधर्माणामतिदेशकं । प्रवर्याधा. ने कुण्डपायिनामयनेषु प्रवाश्च न प्रकृतिः दधिधर्मे धर्मा. तिदेशं केचिदिच्छन्ति परिश्रित्योभयत्र शान्ति कृत्वेति । दर्शपूर्णमासज्योतिष्टोमी प्रकृती एव । अमीषोमीयद्वाद. शाहसंवत्सरादयः प्रकृतिविकृतयः। इष्टय एकाहाश्वोद्रि दादयो विकृत्तयः एव । दर्विहोमादयो न प्रकृतयो न विकृतयः। 'आमावास्येन वा पौर्णमासेन वा हविषा यक्ष्यमा. णो भवतीति दर्शपूर्णमासारम्भो मन्त्रक्रमानिरपेक्षत्वादा धानादीनां सामानां समस्तविधानाभावादेतदपेक्षत्वाचानयोर्ज्ञाने तेषां गतकल्पत्वात् । इह पौर्णमास्यादित्वेपि अमावास्यायाः प्रथममन्त्रग्रहणमन्त्रक्रमात् दाक्षा(यण)यज्ञादौ शाखाहरणाद्यारम्भस्य पौर्णमास्यामप्युपकारात् पौर्णमा. सीधर्मारम्भे कचिदप्थामावास्यस्यानुपकारादसाधारणा. (ण्या?)दादिपदार्थस्य 'अथातो दर्षपूर्णमासी व्याख्यास्याम' इत्यप्रतिज्ञातमारम्भादेव गम्यते इति । अथेत्यधिकारकरणं । तयोरेवारम्भात्तदितश्च कालप्रकृतेस्तस्येदमिति वा भवार्थे वा विध्यपेक्षः ॥
For Private and Personal Use Only