________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1642
A DEBORIPTIVE CATALOGUE OF
Substance-Paper. Size-111x5 inches. Sheets-50. Lines-10 or 11 to a Page. Script-Devanagari. No. of Granthas--1150. Author--Kapardisyamin. Sulbasūtravyākhyā only. Beginning:
श्रीगणेशाय नमः ॥ उक्ता यज्ञास्तेषामायतनानि नियतप्रमाणानि नियतदेशानि तेषामायामविस्तारान्वक्तुकाम आह ।।
विहारयोगान्व्याख्यास्यामः ॥ विड़ियन्तेऽस्मिन्ननय इति विहाराः प्राग्वंशादयः गार्हपत्यादयश्च ॥ युज्यते. ऽनेनेति योगो रज्जुविशेषः। विहाराणां योगो विहारयोगः। विहारसम्पादनार्थान् रज्जुविशेषान् व्याख्या: स्यामः प्रतिपादयामः । अथवा आयामादीनां विहरणमेव विहारस्तेषां योगो विहारयोगः सम्यक्सम्पादनमित्यर्थः । योगा इति बहुवचनं बहुव्रीहिः(१) प्रकारैर्दर्शयितुं, दर्शनञ्च प्राधान्यप्रतिपत्त्यर्थम् । यथा रथादयो न नियताङ्गप्रमाणा एकस्मिन्नोऽपि मात्रया हीयमाने सम्यान गच्छन्ति, एवमगन्यायतनादीन्यपि मात्रया हि(ही)नानि साधनभावं न गच्छन्ति । तस्माद्यत्नेन सम्पादयनीयानि। सर्वत्र विज्ञायत इति श्रुतीनामुपन्यासात्सर्वथा आयामादय उक्तैरव मार्गः सम्यक्सम्पादनीयाः । आयतमानां श्रेषे च प्रायश्चित्चेन भवितव्यम् । अमुमेवार्थ पृथग्दर्शयितुं शुल्यान्तरे 'अथातः' शब्दो प्रयुक्तौ-'अथातो विहारयोगा' निति । आदितस्तावदिशा ग्रहणं वक्तव्यमनेनाचार्येण नोक्तं कल्पान्तरतो ग्रासम् ॥
For Private and Personal Use Only