________________
Shri Mahavir Jain Aradhana Kendra
Beginning:
www.kobatirth.org
SANSKRIT MANUSCRIPTS
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमहागणपतये नमः ॥
बिहारयोगान्व्याख्यास्यामः ॥ श्रीगणेशाय नमः ॥
* मित्येकाक्षराख्येयं वन्दे वाच्ानसातिगम् । पश्यन्ति सूरयो यद्धि तद्विष्णोः परमं पदम् ॥ १ ॥
लक्ष्मीसहाय मतसीकुसुमच्छविशाश्वतम् । ज्योतिर्मे हृदये भूयात्सदा राजीवलोचनम् ॥ २ ॥ आपस्तम्बाय मुनये नमो वेदार्थभूमये । यत्सूत्रसक्तास्तिष्ठन्ति यज्ञाः श्रुतिकुमारिकाः ॥ ३ ॥ तच्छुल्बसूत्रव्याख्येय पक्षरार्थावबन्धिनी । करविन्दाधिपेनाभिधीयते भाष्यकृन्मते ॥ ४ ॥
·
यज्ञव्याख्याप्रतिज्ञां कुर्बता भगवताऽपस्तम्बेन व्याख्येयतया हविर्यज्ञाः सोमयज्ञाः पाकयज्ञाश्च प्रतिज्ञाताः व्याख्याताश्च । तत्र तावदष्टिकसौमिकप। शुबन्धि कदार्विहोमिकाः स भविषमधनुर्मण्डलचतुरश्रभ्य श्रनानाश्रमो (१) गाईपस्थायतनप्रभृति चित्येष्टकापर्यन्ता नियतपरिमाणा देशविशेषास्तत्र तत्रोक्तास्ते च विमातव्या इति च तद्धि मानं प्रति साधनभूतरज्ज्वादीनां साधनभूतस्यैतावती रज्जुरेतावती क्षेत्रस्य करणीति स्वरूपमात्रेण ज्ञातुमशक्यत्वात्तत्प्रतिपादनमववयं कर्तव्यमिति यङ्गव्याख्यानानन्तरं विहारयोगव्या ख्या क्रियते ॥
बिहार इति ॥ विहारो विहरणं योगस्तत्साधनम् । विहाराणां योगा विहारयोगास्तान्व्याख्यास्यामः प्रतिपा
For Private and Personal Use Only
1637