________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SANSKRIT MANUSCRIPTS
मेतस्येत्युच्यते । अस्ति कवित्समाम्नायविशेषोऽनेनाचार्येणाभिप्रेतः शाकलको वा बाष्कलको वा सहनिवित्पुरो ऋगादिभिस्तस्यैव परिग्रहः कथं स्यात् । न सर्वेषां समाम्नायानामिति । अथ वा एतस्येत्यत्र वीप्सालोपो द्रष्टव्यः ॥ एतस्यैतस्य समाम्नायस्येति । एवमृग्वेदे सर्वे समाम्नायाः सर्वे सङ्गृहीता भवन्ति । तथा सत्येतस्यातिवचनं वीप्सार्थमित्युक्तम्। तेन किं सिद्धं भवति - एतेनैव समाप्रायेन प्रारब्धं कर्म समापयेदिति । इतरथैतस्मिन्यज्ञे शाकलेन किञ्चित्कृत्वा पु.... चित्वाष्कलकेन वान्येन वा कुर्यात् तन्मा भूदिति ताण्डकेति वचनम् । येनोपक्रमः स्याचेनान्तं गच्छेदेषः प्रयो-धर्म इति । अस्येति लघुना सिद्धेभ्येतस्येति गुरुनिर्देशः समाम्नायः पूजाकरणार्थम् । अथवानु.... शाकलेयसंहिता समाम्नायस्य परिग्रहार्थे तेन किं सिद्धं भवति वृषाकपौन्येंखे (!) रित्यवाकार लोपार्थम् । इतरथा पदसमाम्न यः परिपुहीत इति कृत्वा अकारस्य लोपो न भवति । तन्मा भूदिति । समाम्नाय - स्येत्यृग्वेद समाम्नायनिर्देशः कृतः । उचरत्र कर्मचोदनायां होतारमिति एतावन्मात्रहोतृकमिति वचनाचेदमस्मिच्छा से विधीयमानं होतृकर्मेत्यवगम्यते श्रुतौ च सिद्धम् । ऋम्बेदेन होता करोतीति । तस्माङग्वेदसमाम्नायस्येति सिद्धम् । किश्चान्यदुत्तरत्र ऋचामादिग्रहणाद्यजुषां कृत्स्नशः पाठात्साम्नापनध्ययनदर्शनाच्च यदि साम नापीयादिति तस्माद्यग्वेदसमाम्नायस्य परिग्रहसिद्धम् । यज्ञे
......
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
"
1581