________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
443
SANSKRIT MANUSCRIPTS
॥ कृष्णयजुर्वेदसंहिताभाष्यम् ॥ 658. KRSNAYAJUR-VEDA SAMHITA BHASYAM. Burnell's Catalogue No. 9052. Page 7. Right column. Substance-- Palm leaf . Size-154x13 inches. Leaves-253. Lines ---6 to a Page. Script--Grantha No. of Granthas 5000. Author-Sayana.cārya. Incomplete. Beginning :
वागीशाद्यास्सुमनसस्सर्वार्थानामुपक्रमे । यन्नत्वा कृतकृत्यास्स्युस्तं नमामि गजाननम् ॥ शुक्लांबरधरं विष्णुं शशिवर्ण + सर्वविघ्नोपशान्तये ॥ यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ अध्वर्योः प्रकृतौ मन्त्राः प्रपाठकचतुष्टये । वर्णिताः पुनराधेयं पंचमाये प्रवक्ष्यते ।। आधानादूर्ध्वमेवैषा वक्तव्या पुनराहितिः । तथाप्यध्ययनस्यायं क्रमो वरवृतत्वतः ॥ सरस्वती स्वपुत्राय तहुद्धिस्थे क्रमे वरं । ददौ तेन क्रमेणैव पठन्त्यन्येऽपि पाठकाः ॥ एकादशानुवाकाः स्युः पंचमोस्मन्प्रपाठके । तत्रादौ पुनराधेयमनुवाकचतुष्टये ॥ ततः षढ़ेऽग्न्युपस्थानं काम्ययाज्यास्तथान्तिमे । विधीयतेऽनुवाकेऽस्मिन्नादिमे पुनराहितिः ॥ उद्वास्य पुनरादधीतेति विधास्यति । तत्र पुनराधेयस्याग्निदेवतां विधातुमग्निविषयमुपाख्यानमुदाहरन् प्रसंगाद्रजतस्य यज्ञे दक्षिणात्वं निषेधति ।।
For Private and Personal Use Only