________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9090
A DESCRIPTIVE CATALOGUR OF
सन्मूलं समशोधनं . . . गतव्यक्ताभिधं वा धिया वेद्यं योगविशेषतः किमपि तत् कृष्णेति बीजं भजे ॥ यत्पादाम्बुरुहप्रसादकणिकासञ्जातबोधादहं पाटीकुट्टकबीजतन्त्रगणनाकूपारपारङ्गतः । छन्दोऽलङ्कतिकाव्यनाटकमहासङ्गीतशास्त्रार्थवित् तं वन्दे निजतातमुत्तमगुणं श्रीज्ञानराज गुरुम् ।। चक्रे चक्रविहङ्गयोरिव युर्ति निनन् विमोहक्षपो वि . षे गणिनार्थयोः कविमुखाम्भोज समुच्छासयन् । शृङ्गाराद्रिरसानुसक्तविबुधेन्द्राशामसौ पूरयन शश्वद्विष्णुपदस्थिरो विजयते तद्बोधसूर्योदयः ।। स्फुरद्वीजाम्भोधौ विविधरचनागाधसलिले तितीषूणां याभूदथ गमतीनां श्रमभरः । विमुग्धानां प्रीत्यादृतसदयचेताः परिमिता. मिमां व्याख्यानार्थ सपदि रचये सूर्यगणकः ।। बीजाक्षरार्थः प्रथमं दुरायः का वासना तत्र विचारणीया । तथाच सूर्योऽहमुदारबुद्धिः बीजं सबीजं विशदीकरोमि ॥
ज्योतिःशास्त्रं निखिलागमाङ्गमौलिकलिकालमहिम्ना लुप्तमिदमुद्धर्तुमज्ञानतमोनिहितं जगदुपकर्तुमाविष्कृततनुरसौ भास्करः प्रकृतोपक्रमातुसारं व्यक्तं गणितं विरचय्य तद्बीजभूतमतिगहनमव्यक्तगणितं विवक्षु . . . . . समाप्ति कामनाप्रतिबन्धकविघ्नोत्सारणासाधारणकारणं नमस्काररूपं मङ्गलं स्वयमनुष्ठितं छात्रोपयोगमात्रणानेकार्थः . . . . उपेन्द्रवज्रावृत्तेन ग्रन्थतो निबध्नाति । End:
दैवज्ञज्ञानराजात्म(ज)कविगणकाचार्यसूर्याभिधानप्रोक्ते सहीजभाष्ये सुजनबुधजनानन्दसन्दोहहेतौ । सम्यक् सूर्यप्रकाशे पटुषडु(बटु)हृदयध्वान्तविध्वंसदक्षे जातस्सर्वोपपत्तिः बहुगुणफलभाक् कुटकोऽपि . . ध्यन्यः ! । निरूप्य गणकाग्रणीः स्फुटतरोक्तिभिः कुट्टकं पराभिनवभास्करः प्रथितपण्डितो भास्करः ।
For Private and Personal Use Only