SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8038 A DESCRIPTIVE CATALOGUE OF यावत् तावत् कल्प्यमव्यक्तराशेर्मानं तस्मिन् कुर्वतोद्दिष्टमेव । तुल्यौ पक्षी साधनीयौ प्रयत्नात् त्यक्ता क्षिप्ता वापि संगुण्य भक्ता ।। End: एवं स्वकृतस्यास्य बीजस्य गुणान् युक्तया संस्थाप्योपसंहरतिगणक भणितिरम्यं बाललीलावगम्यं सकलगणितसारं सोपपत्तिप्रकारम् । इति बहुगुणयुक्तं सर्वदोषैविमुक्तं पठ पठ मतिवृद्ध्यै लध्विदं प्रौढिवृद्ध्यै ॥ गणकेति सम्बोधनम् । भणतयः शब्दाः । तैः रम्यं पदलालित्ययुक्तमित्यर्थः । शेषं स्पष्टम् । अभूत्पृथिव्यां प्रथितो गणो(णौघे) (र)शेषसदैवविदां वरिष्ठः । संपूजनानेहसि यस्य गौरी स्मृता स्तुता प्रत्यहमाविरासीत् ॥ तत्सूनवः पञ्च बभूवुरेषां ज्येष्ठोऽभिरामः किल रामनामा । भविष्यदर्थज्ञतया हि यस्य विदर्भराजोऽपि निदेशवः ।। रामादभूतां सीतायां पुत्रौ कुशलवाविव । श्रीमल्लो गोपिराजश्च गुणैः सर्वेः समन्वितौ ।। (श्री)मल्लसूनुर्जयति द्विजन्द्रो वल्लालसंज्ञः शितिकण्ठभक्तः । यः सन्ततं जपति(रुद्रजपादि)सङ्गात् ब्राझं मदो(हो)मूर्तमिवावभाति ।। Colophon: दैवज्ञवर्यगणतन्ततसेव्यपार्श्ववल्लालसंज्ञगणकस्य सुतोऽस्ति कृष्णः । रामानुजः स परमेश्वरतुष्टिहेतोः बीजक्रिया(विकृति)कल्पलतामकार्षीत् || यद्भास्करेण निजधामगुणातिरेकात् संपादितं सगुणवर्गधनं हि बीजम् । तत्कृष्णभूमिमधिगम्य विचारवारिसंसिक्तमङ्करजनुष्यभवत्समर्थम् ।' थैर्यैः श्रमविरचितोऽस्ति नवाङ्कुरोऽसौ तेषामभिज्ञ इह कः परमात्मनोऽन्यः । इत्थं विचिन्त्य जगदीश तवैव तुष्ट्यै सर्वज्ञ ते चरणयोनिहितस्ततोऽयम् ॥ The scribe adds: - अस्य प्रमातृकालेखस्य शकाब्दः १५२३. मातृकालेखस्य शकाब्दमासतिथयः १७७८-३-१. एतल्लेखनस्य शकाब्दमासतिथयः १७९२-५-८. रङ्गाचार्यहस्तलिखितमिदम् । पेरुकवालन्दान् ॥ For Private and Personal Use Only
SR No.020209
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 24
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages504
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy