________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
9081
स्वयम्भुवा पुरा सृष्टं चक्षुर्भूतं द्विजन्मनाम् ।
वेदाङ्गं ज्यौतिषं ब्रह्म समं वेदैर्विनिस्सृतम् ॥ अस्य शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्युच्यन्ते । सिद्धान्तजातकसंहिताभेदेन स्कन्धत्रयात्मकमित्यभिधेयम् । तत्कालनिर्णयः प्रयोजनान्युच्यन्ते । तत्र ग्रहगणनज्योतिश्चक्रभ्रमणपञ्चाङ्गधरणीसंस्थानादेः प्रतिपादको(कः) सिद्धान्तस्कन्धः प्रथमः । कर्मवशेन जातस्य जन्मलमवशात् तस्य कर्मायुर्दायनिर्याणादेः प्रतिपादको जातकस्कन्धो द्वितीयः । अस्य होरेति च परिभाषा । त्रिविधोत्पातवशात् जगच्छुभाशुभप्रतिपादकः शाखाशब्दवाच्यः संहितास्कन्धस्तृतीयः । एतैस्त्रिभिः स्कन्धैर्बहुशो विप्रकीर्णेऽस्मिन् शास्त्रे द्विजस्याधिकारः । अस्य प्रयोजनम्
वनं समाश्रिता ये च निर्ममा निष्परिग्रहाः । अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदान् ॥ किमुतान्य इत्यर्थः ।
सर्वेषामेव जन्तूनां शतमेवायुरुच्यते । तत्रोच्छासः प्राणकालः सर्वस्यैष विनिर्णयः ॥ साङ्गोपाङ्गं वत्सरस्य ब्रह्मणो जन्मतः फलम् । ये शृण्वन्ति ऋतुफलं प्रामुवन्ति न संशयः ॥
End:
कूपप्रारम्भलमेषु एकद्वित्रिचतुष्टये । यत्र पापग्रहस्थित्या तत्र पाषाणदृश्यते ॥
पञ्चाङ्गं परमं पवित्रमतुलं पापघ्नमिष्टार्थदं गङ्गास्नानफलप्रदं ग्रहगणप्रीतिप्रदं मङ्गलम् । नित्यानन्दकरं जनप्रमुदितं विद्याभिवृद्धिप्रदं
पुत्रोत्पत्तिकरं नरेन्द्रसहितं पञ्चाङ्गमाकर्ण्यताम् ॥ The soribe adds
रौद्रिनामसंवत्सरपुष्यशुक्लतृतीयेन्दुवासरे पञ्चाङ्गनिर्णयकौमुदी लिखितं पूर्तिमयात् ॥ ८ शाक. १७८३.
For Private and Personal Use Only