SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. गर्गाद्यैः पूर्वमुक्तं तदलमिति मतिं मा कृथा विस्तृतत्वात् दुर्बोधं तत्प्रणीतं न च सकलमितप्रन्थके लक्षभावम् । तस्मात्सारं गृहीत्वा सकलमुनिकृताच्छास्त्रतः सर्ववेद्यं सङ्क्षिप्तं सत्कलापं मृदुपदरचितं ज्यौतिषं वच्मि यत्नात् ॥ एतच्छासं गणितं होरा - संहितारूपेण त्रिविधम् । तथा चोक्तं काश्यपेन - स्कन्धत्रयात्मकं शास्त्रमाद्यं सिद्धान्तसंज्ञिकम् । द्वितीयं जातकस्कन्धं तृतीयं संहिताह्वयम् ॥ ग्रहाणां मध्यमा भुक्तिः स्फुटभुक्तिरनन्तरम् । दिक्साधनं ततश्छाया लग्नकालविनिर्णयः ॥ चन्द्रार्कग्रहणं सम्यक्तयोश्च परिलेखनम् । समागमो युद्धभेदो भ[1] ग्रहाणां युतिस्तथा ॥ उदयास्तमयज्ञानं चन्द्रशृङ्गोन्नतानती । पात वैधृतयोर्ज्ञानं भूगोलो यन्त्रलक्षणम् ॥ मानक्रिया मानभेदाश्वाद्यस्कन्धे प्रकीर्तिताः । राशिभेदः खेटयोनिर्वियोनिर्जन्मलक्षणम् । निषेको जननं पुंसामरिष्टं भङ्गलक्षणम् ॥ आयुर्दायो दशाभेदा भेदाश्वान्तर्दशासु च । अष्टवर्गः कर्मजीवो राजयोगाश्च नाभसाः || चन्द्रयोगा द्विग्रहाद्या प्रव्रज्यायोगसम्भवाः । राशिशीलं दृष्टफलं फलं भावफलं तथा ॥ आश्रयाख्याश्च ये योगा योगाः सङ्कीर्णसम्भवाः । स्त्रीजातकं नष्टयोगो निर्माणं नष्टजातकम् ॥ काणाच क्रियायोगा द्वितीय स्कन्धसम्भवाः ॥ आदौ शास्त्रोपनयनं खेटचारोऽब्दलक्षणम् । तिथिवासरनक्षत्रयोगतिथ्यर्थलक्षणम् ॥ मुहूर्तोऽवग्रहः सूर्यसङ्कान्तिर्गोचरक्रमः । चन्द्रताराबलं चैव क्रियाः षोडशकर्मणाम् ॥ छुरिकाबन्धनं यात्राप्रवेशः सद्मलक्षणम् । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 9069
SR No.020209
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 24
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages504
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy