________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9066
A DESCRIPTIVE CATALOGUB OD In giving a rule for finding out the Saka year the author lays down the formula 60 x 25 + 49 + number of years from the beginning of the cycle. The work must therefore have been written between Saka 1549 and 160p, i.e., 1626 A.D. to 1686 A.D.
The original from which this M8. was copied bears the following date-- 23rd September 1858, Thursday, 15th of Bhadrapada full-moon of Kalayukti. The name of the copyist is given to be Nuddum Prasannajāsgalu. Beginning:
श्रीलक्ष्मीशं नमस्कृत्य भास्करं भारती गुरुम अहोबलायपितरं गणेशश्च मुहुर्मुहुः ॥ गोत्रेऽस्मिन् कौशिके जातो येन मन्त्राब्धिचन्द्रमाः । नृसिंहसूरिः कुरुते दैवज्ञानां सुभूषणम् ॥ कश्यपादिप्रणीतानि मन्वादिस्मृतिबृन्दकम् । ब्रह्माण्डादिपुराणानि वाराहादिनिबन्धनान् । सिद्धान्तानागमान् कल्पानेतान् ग्रन्थान्मनोहरान् ।
आलोक्य विदुषां प्रीत्यै सङ्ग्रहः क्रियतेऽधुना ॥ इह खलु तावद्वेदाङ्गेषु षट्स्वपि ज्योतिषस्य कालज्ञानहेतुत्वेन श्रेष्ठतमत्वात् कालज्ञानाभावे कस्यापि कर्मणः कर्तुमशक्यत्वात् श्रौतस्मातादिसकलकर्माचरणयोग्यताहेतुभूतत्वेन सर्वेपामत्यन्तापेक्षणीयं ज्यौतिषम् ,
(पञ्च)संवत्सरमयं युगाध्यक्ष प्रजापतिम् ।
दिनवयनमासाङ्गं प्रणम्य शिरसा स्थितः ॥ इत्यादिश्लोकरूपं परमकारुणिकः परमेश्वरः प्रणिनाय । तावन्मात्रेण मन्दबुद्धीनां व्यवहर्तुमशक्यत्वादपि सूर्यः पितामहो व्यासादयोऽष्टादशर्षयो ज्योतिश्शास्त्रप्रवर्तकाः सुखावबोधार्थ त्रिस्कन्धरूपेण प्रपञ्चीकृत्य निबन्धनानि चक्रुः । तेष्वप्यावश्यकवचनगवेषणालसानामेकत्र सारं संगृह्य क्रियते । तत्रादौ संवत्सरस्वरूपमाह
संवत्सरस्वरूपम् ॥ कश्यपः
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इदावत्सरस्तृतीयं च चतुर्थ श्चानुवत्सरः ॥
For Private and Personal Use Only