________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9062
A DESCRIPTIVE CATALOGUE OF
कामन्दकजलोपायं सस्यानन्दकदोहदान् । विवेक्तारश्चान्ध्रकाव्ये व्यक्ताव्यक्तादिसंज्ञकान् ॥ प्रणेतुं(तन् )मुद्रयी(यि)तारं तथा रेट्टमतस्य च । लीलावतीं प्रगीतारमान्ध्रकाव्ये समर्मकम् ॥ श्रीमद्वेङ्कटकृपाख्याः निशम्य विबुधोत्तमाः । पूर्णय्यसुब्रह्मण्यादिवयस्याः प्रीतिपूर्वकम् ॥ ज्ञातुं दृग्गणितैक्यत्वक्रियातत्त्वं यथातथम् । रव्यादिनां खेचराणामेवं पप्रच्छुरादरात् ॥ रायवर्य त्वयालोकि सिद्धांतान् विविधान् बहून् । तत्तत्तन्त्रविधानेषु नैपुण्येनासकृत् स्फुटम् ॥ कस्मात्तन्त्रागमा नीता ग्रहा हत्तुल्यतां गताः । तिथिनक्षत्रोपरागसङ्क्रान्त्ययनयुक्तिषु ॥ पातनक्षत्रसंयोगग्रहयुद्धादिकेषु च । नक्षत्रस्थानलमादिसाधनेवितरेषु च ॥ निर्णीतं तवया वाच्यमस्मत्प्रियचिकीर्षया । त्वत्तुल्यमस्मद्विषये न पश्यामोऽन्यमीहशम् ॥ एवं पृष्टः प्रत्युवाच सोऽत्यन्तविनयान्वितः । भवद्भितिसर्वस्वैर्नार्होऽस्म्येवमुदीरितुम् . अनुगृहीतोऽस्मि भवतां सर्वदा नात्र संशयः । तथापि स्व श्रीकलापश्रवणे यद्वदादरः ॥ श्रोतुं मत्तो यदिष्टं स्याद्वाक्ये शृण्वन्तु मे मतम् । इत्युक्त्वान्यानुभूतं यत् वक्तुं प्रारभतादरात् ॥
मनुना तर्कवेदान्तकाव्यालङ्कारनाटकाः । अन्यानि सर्वशास्त्राणि मनीषाकल्पितानि यत् ॥ तत्रोपलब्धिर्यत्रैव न तदृग्गोचरं गतः । तस्मात्तस्मिन् विवादानामास्पदं बुद्धिभेदतः ॥ न तथा ज्योतिष शास्त्रं यस्मात्प्रत्यक्षगोचरम् । तस्मादस्मिन्नाग्रहस्य सुसूक्ष्ममपि कारणम् ।
For Private and Personal Use Only