SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THR SANSKRIT MANUBORIPTS. 9056 Fol Fol. १६० उत्पातः १५५ गोः क्षुतम् यात्राशकुनम् दुनिर्मित्तशान्तिः ... - १६० क्षुतशकुनम् ___... १५९ १५. विवाहप्रकरणम् १९१. विवाहमासाः १६२. Beginning: . . . . . . शिशूनां वोधकारिणी । व्याख्या विरच्यते रत्नमालायाः श्रीधराख्यया । प्रथमं प्रबन्धारम्भलक्षणं नमस्कारमाह--- प्रभवविरतिमध्यज्ञानवन्ध्या नितान्तं विदितपरमतत्त्वा यत्र ते योगिनोऽपि । तमहमिह निमित्तं विश्वजन्मात्ययानामनुमितमभिवन्दे भग्रहैः कालमीशम् ।। इति । अत्र पूर्वार्धन कालस्य महत्ता प्रतिपादयन्ति । योगिनोऽतिसूक्ष्मविदः विदितपरमतत्त्वा विदितपरमार्थज्ञानाः तेऽपि यत्र यस्मिन्कालविषये प्रभवविरतिमध्यज्ञानवन्ध्याः आद्यवसानमध्यज्ञानाशक्ता भवन्ति । तस्मादश्विर व्यतिरिक्तैः ज्ञातुम तुं न)शक्यते । तथोक्तम् । अप्यर्णवस्य पुरुषः प्रतरन्कदाचिदासादयेदनिलवेगवशेन पारम् । न त्वस्य कालपुरुषाख्यमहार्णवस्य गच्छन्कदाचिदनृषिः मनसांपि पारम् ॥ इति। अत्रानृषिशब्देन ईश्वरव्यतिरिक्त उच्यते । तथोक्तं श्रुतीविश्वाधिको रुद्रो महर्षिरिति । विश्वजन्मात्ययानां निमित्तमिति । विश्वस्य सृष्टिसंहरणकार्य कालस्यैवेति । तथोक्त वायव्यसंहितायाम् - काल: सृजति भूतानि काल संहरति प्रजाः । सर्वे कालस्य वशगा न काल: कस्यचिदशे ।। विष्णुपुराण च तथोक्तम.. विष्णोः सुरूपात्परतो द्विते । रूपे प्रधानं पुरुषश्च विप्र । तस्यैव तेऽन्ये विधृते वियुक्त रूपान्तरं तद्विज कालसंज्ञम् ।। इति । भग्रहैरनुमितमिति भगणैः नक्षत्रगणैः ग्रहैः नवग्रहश्न शशिभिः कालोऽनुमीयते । तथोक्तम् । For Private and Personal Use Only
SR No.020209
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 24
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages504
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy