SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS, 9448 The copyist Venkatazkrşņa Rao gives the date: Tuesday, the 5th of Ăni of the Dundubhi year corresponding to 17th June 1869. Beginning : सर्वेशं सर्वगं सर्व सर्वभूतहदि स्थितम् । सर्वकार्यकरं नीत्या स्वरज्ञानमुदीरयेत् ॥ यस्मादुत्पद्यते विश्व पुनर्यस्मिन्विलीयते । तमहं शाश्वतं वन्दे समीरणपदानुगम् ।। अव्यक्तमव्ययं शान्तं नितान्तं योगिनां प्रियम् । सर्वज्ञानस्वरूपं यत् तद्वन्दे ब्रह्म सर्वगम् ॥ अभयं देवदेवेशं लोकनाथं जगत्पतिम् । सर्वज्ञं तं नमस्कृत्य देवी वचनमब्रवीत् ।। कारणस्य च रागस्य कालस्य गुलिकस्य च । अलातपातदिग्दाहहोराणां वासरस्य च ॥ यन्त्रमन्त्रग्रहादीनां सर्वेषां सर्वकर्मणाम् । सर्वसिद्धिकरं ज्ञानं कथयस्व मम प्रभो ॥ श्रीभगवान् शङ्कर उवाच साधु साधु महाभागे सर्वज्ञे चारुभाषिणि । रहस्यं कथ्यते देवि हे पार्वति तव प्रियम् ॥ यस्य विज्ञानमात्रेण ज्ञास्यसे भुवनत्रयम् । चिन्तामणिरिति ख्यातं चिन्तनीयं सुरासुरैः ॥ कारणस्य च रागस्य कालस्य गुलिकस्य च । अलातपातदिग्दाहा यस्मिन्नभ्युदिते स्वरे ।। यन्त्रमन्त्रसमूहैश्च सग्रहौषधिभिस्तथा । भिद्यते रिपुसङ्घाश्च सुस्वरेण यथासुखम् ॥ For Private and Personal Use Only
SR No.020209
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 24
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages504
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy