________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9040
A DESCRIPTIVE CATALOGUE OF
Beginning:
श्रीगणेशदैवज्ञकृतो ग्रहलाघवाख्यतन्त्रः श्रीमल्लारिकतोपपत्तिव्याख्यानयुता लिख्यते ।
यथा - नाके नाकेशमुख्यास्सुरवरनिवहास्सन्ति येऽनन्तसङ्ख्याः नाख्याव्या(मा)ख्या(त्य)मीषां ख्या] कथमपि च मनःपूर्वकं वामदीया । पडू (एक)हित्वैकदन्तं सकलसुशिरस्सङ्घसङ्कर्षितानि । शीघ्र भक्तेष्टसिद्धिप्रदमिह हि सुरं सादरं तं नमामि ॥
मल्लारिं कुलनायकं रविमुखान्खेटांश्च नत्वा गुरोः स्मृत्वा पादयुगं ह्यवाप्य च ततः किञ्चित्सुबोधात्मकम् । मल्लारिग्रहलाघवस्य कुरुते टीका लसद्वासनां यस्मादल्पमातिश्च कुण्ठितमतिरस्यात्पूर्ववैचित्र्यतः ।। मध्यस्फुटास्तोदयवक्रपूर्व कर्माखिलं यद्गणिते खगोत्थम् । जीवाधनुनी(सं)श्रयकं विना ते न स्यादयं निश्चयमेव गोले । कथमत्र कृतं विना धनुज्य खरकर्माखिलमल्पकर्मणा । उपपत्तिविचारणाविधौ गणका मन्दधियो विमोहिताः ।। तस्माद्वच्म्युपपत्तिमस्य विमलां तन्मोहनाशाय तां ज्ञात्वा मे मतिकौशलं सुविगलं पश्यन्तु तुष्यन्तु ते । हे वर्या गणका विलोक्य यदिहाशुद्धं च संशोध्यतां
किं वा प्रार्थनया परोपकृतिषु स्वाभाविकस्तद्गुणः ।। अथ श्रीमज्जलधिनिकटस्थितनानोपवनविराजितनन्दिग्रामाभिधाननगरनिवासी सकलभूपतिसेवितचरणयुगलकमलः गणिताटवीविघटनपटुतराखिलदैवविन्मातजकुम्भपाटनोत्कण्ठकण्ठीरवः श्रीमदुमारमणचरणद्वयपङ्कजाप्तमहामतिवैभववेदवित्केशवदैवज्ञात्मजः गणेशदैवज्ञवर्यः ग्रहलाघवाख्यं ग्रहकरणं चिकीर्षुः तत्रादौ निर्विघ्नेन ग्रन्थसमाप्तिप्रचयगमनाभ्यां वस्तुनिर्देशरूपमङ्गलसहितं ग्रन्थारम्भं वसन्ततिलकवृत्तेनाह(मू) ज्योतिःप्रबोधजननी परिशोध्य चित्तं तत्सूक्तकर्मचरणैर्गहनार्थपूर्णा ।
___ स्वल्पाक्षरापि च तदंशकृतैरुपायैर्व्यक्तीकृता जयति केशववाक्छ्रतिश्च ॥ (व्या) श्रुतिः वेदः सर्वोत्कर्षण वर्तते । तां विशेषणद्वारा स्तौति । किं. विशिष्टा । केशवस्य विष्णोर्वाक् । यस्य निश्वसितं वेदा इत्युक्तत्वात् । .
For Private and Personal Use Only