SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 9828 सकरात्तु फलानाच ग्रहाणां गतिसङ्करात् । नाद्येय(द)मीहगस्येयमि(दि)ति वक्तुं फ(तुम)लं नराः ।। कलौ युगे ततोऽल्पैव बुद्धिः पापोत्तरा नराः । अतो न चास्य प्रचयगमनं न प्रयोजनम् ।। नरास्त्रेतायुगे केचित् द्वापरे च कृते युगे । कुशाग्रमतयस्सर्वे पुण्यभाजश्चिरायुषः ॥ अतोऽरुपबुद्धिगम्यं यत् शास्त्रमेतद्वदस्व मे । लोकयात्रापरिज्ञानमायुषां ज्ञानमेव च ॥ अशीत्यध्यायसंयुतैः अशीतिसङ्ख्याकाध्यायपरिच्छिन्नैः । फलानां शुभाशुभफलानाम् । सङ्करान्मिश्रभावात् यस्मिन् काले एकेन ।। अतोऽस्मिन् कली अल्पबुद्धिगम्यं मन्दधीवेद्यं यच्छास्त्रं लोकयात्रायामैहिकामुष्मिकफलरूपाया(पप्रयो)जनसिद्धेः ज्ञापकमायुषां दीर्घमध्याल्पानां ज्ञापकमेतच्छास्त्रं मे वदस्व । द्विविधमेव हि जातकशास्त्रं लोकयात्रापरिज्ञानम् आयुष ज्ञानश्चेति । अथोचितप्रश्नश्लाघनपूर्वकं पराशरश्शास्त्रे तादृशमुपक्रमते । साधु पृष्टं त्वया ब्रह्मन् वदामि तव सुव्रत । लोकयात्रापरिज्ञानमायुषां निर्णयं तथा ॥ सङ्करस्याविरोधश्च शास्त्रस्यापि च सिद्धये ।। प्रयोजनस्य लोकानामुपकाराय तच्छृणु ॥ अष्टकवर्गानयनं नाम प्रथमोऽध्यायः ॥ End: Colophon: इति श्रीमद्भारद्वाजाम्भोधिपारिजातस्य श्रीरामचन्द्रबुधवर्यस्य तनूजेन श्रीवेङ्कटनारायणेन विरचिते पाराशर्योत्तरभागव्याख्याने मासचर्याशेषकथनं नाम षोडशोऽध्यायः ॥ एवं षोडशभिरध्यायैस्समा(मास)चर्यान्तेषु पदार्थेषु निरवशेषमुक्तेष्वपि अष्टकवर्गविषये कश्चिहिशेषो वक्तव्योऽवशिष्यत इति तदर्थ सप्तदशोऽध्याय आरभ्यते । तं विशेष पञ्चभिराह अर्केन्दुगुरवश्चक्रक्रमादन्ये बलक्रमात् । भवन्ति स्थानदाः खेटाश्चत्वारश्चैकदा यदि ॥ For Private and Personal Use Only
SR No.020209
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 24
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages504
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy