________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
9241
End:
भार्गवो नीचराशिस्थः स्वोच्चांशकसमन्वितः ।
स्वदाये कृषिवाणिज्यधनलाभं प्रयच्छति ॥ इति दशान्तर्दशाफलम् ।
सम्यक् बलिनः स्वतुङ्गभावे सम्पूर्णा बलवत्कृतस्य मुक्ता(मुक्तौ) । नीचांशगतस्य शत्रुभागे ज्ञेयानिष्टफला दशाप्रसूतौ ।। अष्टादशाध्यायिनी सर्वहोरात्समुद्धृते जातकपारिजाते ।
राशिस्वरूपादिदशाफलान्तं प्रोक्तं मया भानुमुखप्रसादात् ॥ Colophon: इति नवग्रहकृपया वैद्यनाथविरचितजातकपारिजाते अष्टादशोऽध्यायः ॥
शाखाभिरष्टादशसङ्घयकाभिस्स्वदायरूपाभिरतिप्रकाशा । ज्योतिर्मयस्सर्वफलप्रदानं सङ्कीर्तितो जातकपारिजातः ॥ उक्तं राशिगुणालयं ग्रहगति स्थानस्वभावाकृतिवादानादिसमस्तजीव . . बालाघरिष्टाकरम् । आयुर्जातकभङ्गयोगविधि(त): श्रीराजयोगादिज. . दि योगजाशुभशुभं मान्धब्दजा च क्रमात् ॥ पश्चादष्टमवर्गबिन्दुगणितं होराधनस्तानजः दुश्चित्का . . निभावजं सुतरिपुस्थानप्रयुक्तं फलम् । कन्दर्पाष्टमधर्मराशिजनितं व्यापारलाभं त्यजन् । नारीजातकलक्षणं निगदितं चक्रादशान्तर्दशाः ॥ श्रीविद्याधिकवेङ्कटादितनयः श्रीवैद्यनाथस्सुधीरादित्यादिसमस्तखेटकृपया विद्वजनप्रीतये । होरासिन्धुसमुद्गतामृतमयीं अष्टादशाध्यायिनी
चक्रे जातकपारिजातसरणिं गीतोत्सक श्लोकिनी(?) । इति श्रीजातकपारिजातं समाप्तम् ॥
-
No. 13693. जातकमञ्जरी.
JATAKAMANJARI. Pages, 13. Lines, 6 on a page.
Beging on fol. 12a of the M8. described under No. 13606.
For Private and Personal Use Only