________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
9111
भूकम्पोल्कापरिवेषलक्षणं शक्रचापखपुरं च । प्रतिसूर्यो निर्घातस्सस्यद्रव्यार्घकाण्डं च ॥ इन्द्रध्वजनीराजनखञ्जनकोत्पादबर्हिचित्रं च । इति सप्तचत्वारिंशदध्यायाः प्रथमनिर्दिष्टाः ॥ एतत्कोशान्तरे लिखितमस्तीतिबोध्यम् । पुण्याभिषेकपट्टप्रमाणमसिलक्षणं वास्तु ॥ उदकार्गलमारामिकममरालयलक्षणं कुलिशलेपः । प्रतिमा वनप्रवेशः सुरभवनानां प्रतिष्ठा च ॥ चिह्नं गवामथ शुनां कुक्कुटकूर्माजपुरुषचिहं च । पञ्चमनुष्यविभागः स्त्रीचिह्नं वस्त्रविच्छेदः ।। चामरदण्डपरीक्षा स्त्रीस्तोत्रं चापि सुभगकरणं च । कान्दर्पिकानुलेपनपुंस्त्रीकाध्यायशयनविधिः ।। वजपरीक्षा मौक्तिकलक्षणमथ पद्मरागमरकतयोः । दीपस्य लक्षणं दन्तधावनं शाकुनं मिश्रम् ॥ अन्तरचक्र विरुतं श्वचेष्टितं विरुतमथ शिवायाश्च । चरितं मृगावकरिणां वायसविद्योत्तरं च ततः ।। पाको नक्षत्रगुणाः तिथिकरणगुणास्सधिष्ण्यजन्मगुणाः । गोचरस्तथा(मथ)ग्रहाणां कथितो नक्षत्रपुरुषश्च ॥ शतमिदमध्यायानामनुपरिपाटी क्रमादनुक्रान्तम् ।
अत्र श्लोकसहस्राण्याबद्धान्यूनचत्वारि ॥ Colophon:
इति ग्रन्थानुक्रमणी समाप्ता || इति बराहमिहिरविरचिता बृहत्संहिता समाप्ता ॥
No. 13585. बृहत्संहिता, सव्याख्या.
BĶHATSAMAITĀ WITH COMMENTARY. Bubstance, paper. Size, 9 x 75 inches. Pages, 133. Lines, 40 on a
page. Character, Telngu. Condition, good. Appearance, now.
Begins on fol. 31a. The other works berein are Uparágakriyakrama 1a, Grabasantividhi 946.
677
For Private and Personal Use Only