SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. आभिजात्येन वृत्तेन विद्यया चातिशायिनः । पुत्रोऽहं वरदार्यस्य भारद्वाजकुलोद्भवः ॥ श्रीनृसिंह इति ख्यातो ज्योतिश्शास्त्राब्धितारकः । प्रवीणानि विधानानि सम्यग्वीक्ष्य समन्ततः ॥ सङ्क्षिप्य तेषु सारोऽयं वक्ष्ये कालप्रकाशिकाम् । असूयामत्सरग्रस्ता वर्तन्ते भुवि मानवाः || मत्प्रणीतंः कथङ्कारमङ्गीकुर्वन्तु सङ्ग्रहम् । को भवेन्मत्सरी लो(के) सर्वेषां प्रियवादिनि । * एवं सङ्क्षेपतः प्रोक्ता मया कालप्रकाशिका । वासिष्ठं कालदीपं च कालादर्श च पद्धतिम् ॥ नारदीयं तथात्रेयं बार्हस्पत्यं तथैव च । अन्यान्यपि विधानानि समालोच्य समन्ततः । तेषु सारांशमुद्धृत्य कृता कालप्रकाशिका | ज्योतिश्शास्त्रपयोऽम्भोधिं प्रमथ्य नवनीतकम् । नृसिंहविदुषा सम्यगुद्धृतस्सारसङ्ग्रहः ॥ जाके वा समर्थोऽस्तु गणिते वा तथाविधः । नृसिंहविदुषा तुल्यो विधाने नैव दृश्यते ॥ Acharya Shri Kailassagarsuri Gyanmandir मन्थानेन निमथ्य भावुकनिजज्ञानेन सम्यक्तरां ज्योतिश्शास्त्रसमुद्र फणिना तत्सर्वसारामृतम् । भूमनिर्जरजीवनाय वरदाचार्योंर सेनामुना .. भारद्वाज कुलीनमर्त्यहरिणा विद्वरेणोद्धृतम् ॥ ये ग्रन्था प्राक्तनैः प्रोक्तास्सूरिभिज्यौतिषे पुरा । नृसिंह सूरिरचित प्रबन्धेन न ते समाः ॥ कालप्रकाशिकामेनां नृसिंहविदुषा कृताम् । ये पठन्ति द्विजास्ते स्युस्सर्वलोकेषु विश्रुताः ॥ For Private and Personal Use Only 9137 Colophon : इति श्रीनृसिंहसूरिविरचितायां कालप्रकाशिकायां चत्वारिंशोऽध्यायः ॥
SR No.020209
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 24
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages504
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy