SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9126 A DESCRIPTIVE CATALOGUE OF ग्रहेन्द्राणां चारास्सकलगणितं यत्र गदितं स सिद्धान्तः प्रोक्तो विपुलगणितस्कन्धकुशलैः ।। ज्योतिर्महाणां विधिवासरादौ सृष्टिर्लयस्तदिवसावसाने । यस्मादतोऽस्मिन् गणिते ग्रहाणां योग्यो मतो नः खलु कल्प एव ।। सत्सु ग्रहेषु तच्चारजिज्ञासुष्वपि युज्यते । तजिज्ञासा नमस्तेभ्यो भवेद्येषामसत्स्वपि ॥ वर्तमानकदिने मनवः षट् सप्तमस्य च चतुर्युगसङ्ख्या । भैर्मितानु च युगत्रयमन्यद्भारतात् गुरुदिनाच्च गतं प्राक् ॥ स्वायंभुवाख्यो मनुराध आसीत् स्वारोचिषश्चोत्तमतापसौ च । जातौ ततो रैवतचाक्षुषौ च वैवस्वतस्सम्प्रति सप्तमोऽयम् ॥ सौरैचान्द्रमससावनमानस्सौडवैग्रहगतेरवबोधः । एमिरत्र मनुजव्यवहारो दृश्यते च पृथगेव चतुर्भिः ॥ वर्षाणि सौरान प्रवदन्ति चान्द्रान् मासांस्तिथिस्सावनतो दिनानि । सौरैन्दवाभ्यां तु विना न तत्स्यात् नाक्षत्रमानात् घटिकादिकालः । Colophon: इति श्रीपतिविरचिते सिद्धान्तशेखरे ग्रहभगणाध्यायः ॥ End: इन्दोर्भागानयननिहताः पक्षयुक्तास्तु लिप्ताः पादस्तासामपि च विकलास्तद्युतिस्सप्त नन्दाः । दृष्टा पारे दितिसुतगुरोरानयाह्वागणं द्रागिन्दुस्ताहग्भवति स कदा मन्दपारे च विद्वन् । प्रतिकञ्चककृरकृद(त)ध्न विद्वन् पतिता धार्मिकमूर्खदुर्जनेभ्यः । इह(!) तनूरुहस्यमप्रमेयं ददतस्स्यात्सुकृतायुषोविनाशः ॥ भक्ताय शिष्याय चिरोषिताय गुणोपपन्नाय च देयमेतत् । भ्रात्रे च मित्राय च सूनवे च सुदुर्लभस्स्यादिह गोलतत्त्वम् ।। पूर्वप्रणीतकृततन्त्रसदुक्तियुक्तिमुक्ताफलैः क्रमनिवेशनभङ्गधीरः । श्रीश्रीपतिर्गणकचक्रविभूषणाय सिद्धान्तशेखरममुं ग्रथयांचकार ।। For Private and Personal Use Only
SR No.020209
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 24
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages504
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy