________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9124
A DESCRIPTIVE CATALOGUE OF
तां च प्रणिपत्येति । मङ्गलादीनि मङ्गलान्तानि च शास्त्राणि अलङ्कारकृता मतानि । अतः सिद्धिवृद्धिशब्दावाद्यन्तयोर्निक्षिप्तौ । अथ गोलग्रथनकारणमाह ।
मध्याचं द्युसदां यदत्र गणितं तस्योपपत्ति विना प्रौढिं प्रौढसभासु नैति गणको निस्संशयो न स्वयम् । गोले सा विमला करामलकवत् प्रत्यक्षतो दृश्यते
तस्मादस्म्युपपत्तिबोधविधये गोलप्रबन्धोद्यतः ॥ इदानी गोलप्रशंसया गोलानभिज्ञगणकोपहासं श्लोकद्वयेनाह
भोज्यं यथा सर्वरसं विनाज्यं राज्यं यथा राजविवर्जितं च । सभा न मातीव सुवक्तृहीना गोलानभिज्ञो गणकस्तथात्र ।
End:
इदानीं पातप्रयोजनम्
पातस्थितिकालान्तर्मङ्गलकृत्यं न शस्यते तज्ज्ञैः ।
सानजपहोमदानादिकमत्रोपैति खलु यतो वृद्धिम् ॥ Colophon:
इति श्रीमहेश्वरोपाध्यायसुतभास्कराचार्यविरचिते सिद्धान्तशिरोमणौ वास नाभाष्ये मिताक्षरे गणिताध्याये पाताध्यायः ॥
समाप्तोऽयं गणिताध्यायः पाताध्यायग्रन्थः ३४०१ । सर्वगणिताध्यायग्रन्थ संख्या सव्याख्या ॥ ४८३४५ ॥
चक्षुलौकिकवैदिकव्यवहृतेः प्रत्यक्षसत्प्रत्ययं शास्त्रं खेचरचक्रचारचरिते सिद्धान्तबोधप्रदम् । तस्य प्रस्फुटसोपपत्तिरचनाचातुर्यचिन्तामणि
श्रीसिद्धान्तशिरोमणि व्यरचयच्छीभास्करायः सुधीः ॥ The scribe adds --
सोऽयं कालबलात् कलावतिबले लोकाविवेकादलं संप्राप्तो विरलप्रचारमथ तत्प्रोद्बोधसंसिद्धये । पूर्णे भाश्वशशाङ्कपिङ्गलतमे मासस्थराकातिथौ संपूर्ण व्यलिखत् सगोलगणिताध्यायौ सुधीः कृष्णराट् ॥
For Private and Personal Use Only