________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THB SANSKRIT MANU SORIPTS
9007
वात, पित्त, कफ or a combination of any of these. The text is by Kesa. vapandita, son of Mahadeva. The conmentator is his son, Vopadera. Beginning: मू ॥ आयुर्वेदसुधाम्भोधिसारसारणिका गिरः ।
उल्लासितौषधग्रामा जयन्त्यमृतजन्मनः ॥ व्या ॥ आरोग्यवैद्यनाथाख्यं नमः सत्त्वादि समनाम(१) ।
मातापितृभ्यां दातृभ्यामायुःसुखसितामिदम्(?) ।। येनोच्चारितमात्रेण पुरः स्फुरति भेषजम् ।।
सोऽयं भिषग्वरप्रीत्यै सिद्धमन्त्रः प्रकाश्यते ॥ ग्रन्थारम्भे ग्रन्थकदभीष्टदेवतमभिष्टौति, जयन्ति सर्वोत्कर्षेण वर्तन्ते । काः, गिरः वाचः । कस्य, अमृतजन्मनः अमृतं पीयूषं जन्म उत्पत्तिस्थानं यस्य अमतस्य जन्मेति वा ।
आयुर्वेदोपदेशप्रशमितसमस्तातको धन्वन्तरिरेव सर्वोत्कृष्टा देवता इति स्तुतिवाक्यार्थः ।
अथ प्रयोजनमभिधेयमभिधत्ते ---- म् ॥ ग्रन्थः संग्रथ्यतेऽत्यल्पः सिद्धमन्त्रायो मया ।
वैद्याः सुखेन द्राग्द्रव्यशक्तितत्त्वं विदन्विति ।। न्या संग्रथ्यते सम्यक विरच्यते । केन, मया। क , प्रबन्धः । कथंभूतः, अत्यल्पः प्रतिसंक्षिप्तः । किन्नामा, सिद्धमन्त्रायः सिद्धमन्त्र इत्यायोऽभिधा अस्येति तथा । सा चाभिधा सिद्धमन्त्रवदल्पायाससाध्यत्वात् बहुफलप्रदत्वाच्चान्वर्था
म् ॥ रसवीर्यविपाकैर्हिद्रव्यशक्तिर्विविच्यते ।
कोपे शमे वा दोषाणां सात्र स्पष्टा न तेनते ।। व्या ॥ ननु प्राचीनेषु ग्रन्थेषु रसवीर्यविपाकपूर्वको द्रव्यशक्तिविवेकः कृतः । इह तु कथं न तथेत्याह । हि यस्मात् रसादिभिः द्रव्यशक्तिर्विविच्यते, नतु रसादिविवेक एव फलप । क विषये द्रव्यशक्तिः दोषाणां कापे शमे वा दोषाः वातपित्तकफाः कोपः संक्षाभः शमः साम्यम् सा द्विविधा शक्तिः अस्मिन् ग्रन्थे स्पष्टा शब्दोपात्ता ।
For Private and Personal Use Only