________________
Shri Mahavir Jain Aradhana Kendra
8800
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
.
तस्मादेतादृशाः पतितसमस्तदोषपरिजिहीर्षया तन्त्रार्थतत्त्वव्याख्याने सर्वलोकोपकाराय प्रेक्षावद्भिर्म तत्र तन्त्राण्यतन्त्रमित्युक्तमाचार्येण । अस्यायमर्थ:
:
अनेनायुर्वेदेन स्वास्थ्यानुत्पत्ति कुर्वता दोषांश्च निघ्नता तन्त्र्यते धाव्यते शरीरमिति तच्च तन्त्रं समासतः षटू पदार्थाः । तत्प्रतिपादकत्वात्
*
*
*
Acharya Shri Kailassagarsuri Gyanmandir
"
*
तन्त्राधिकरणं नाम यन्निमित्तमधिकृत्य प्रवर्तते कर्ता
विघ्नभूता यदा रोगाः प्रादुर्भूताश्शरीरिणाम् । इत्यादि तदेतन्निमित्तीकृत्य जगदनुकम्पया महर्षिरयमन्तेवासिनामायुर्वेदोपदेशाय प्रवृत्त इति । योगो नाम योजना ग्रन्थानाम् । यथा धीधृतिस्मृतिविभ्रंशः संप्राप्तिः कालकर्मणाम् । इत्यस्य सूत्रस्य भाष्यं
*
तत्रेदमाचार्यसूत्रम् — अथातो दीर्घ जीवितीयमध्यायं व्याख्यास्याम इति अष्टपदं चेदं सूत्रम् । अथ, अतः, दीर्घ, जीवितीयम्, अधि, आयं वि, आख्यास्यामः, इति पदव्याख्या | अतः परं पदार्थव्याख्या, किमयमथशब्दो गवाश्वादिपदार्थशब्दवदर्थवान् उत डित्थडिमित्यादिवदपदार्थकः ? अर्थ? वच्चेऽपि दध्यक्षादिपदपङ्किवन्मङ्गलार्थवाची ? किं वा क्षामनष्टहतदग्धादिपदवदमङ्गलार्थ इति संशये अर्थवान् मङ्गलार्थश्रेति ब्रूमः ।
*
*
米
अन्विच्छनिति अनुशब्दस्सादृश्यवाची, तेनायमर्थस्संपद्यते, निरतायुषां (त) दनुरूपं रसरसायनाभिवृद्धमरोग (मि)च्छन्निति । भरद्वाज इति गोत्रनाम, उपागमत् समीपं गतवान् ।
End:
पूर्वमर्थस्येदं निगमनम्, तदेतानर्थानखिलान् यतः सूत्रकारस्य न्याय्या संग्रह प्रवृत्तिरिति ॥
Colophon :
For Private and Personal Use Only
इत्याचार्यस्वामिकुमारविरचितायां चरकपञ्चिकायां श्लोकस्थाने भेषज इव चतुष्के दीर्घतिय नाम प्रथमोऽध्यायः ॥
अथातोऽपामार्गतण्डुलीयं नामाध्यायं व्याख्यास्याम इति हस्माह भग
वानात्रेयः ।
यथाहायमथशब्द आनन्तर्यार्थः दीर्घजीवितीयानन्तरमपामार्गतण्डुलीयं नामाध्यायं व्याख्यास्याम इति ।