SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TÉE SANSKRIT MANUSCRIPTS. 8956 नत्वा तत्त्वविदो मुनिमुख्यान् धन्वन्तरिसुखभोज्यगुणज्ञान् । भोजनकौतूहलमथ तत्त्वेनानेन जनो निपुणो मुदमीयात् ॥ अथ भोजनविधिः । तत्र -- " जीर्णो हितं मितं चाद्यात् " इत्यायुर्वेदोपदेशात् , “ भोक्तव्यं सघृतं सोष्णं हितं पथ्यं मितं तथा" इति व्यासस्मरणाच भोज्यद्रव्याणि तद्गुणाश्चाभिधीयन्ते । तत्र धान्यप्रकरणम् । तच्च त्रिविधम्तदुक्तं निघण्टुराजे-" प(धा)न्यं भोज्यं च भोगार्हमनघं जीवसाधनम् " इति । वृद्ध्याधुपजीवनं भोगः जीवसाधनमोषधीभ्योऽन्नम् अन्नात्पुरुष इति श्रुतेः । End: तृष्णाशोषविभेदनं धृतिकरं कान्तिप्रदं श्लेष्मल क्षौमं शुक्लमतीव हृद्यममलं पित्तामयध्वंसनम् । माञ्जिष्ठं च विदाहिकं च कफकृच्चोष्णं च वातामयं बाहरुचिरं सुखश्च कुरुते श्लेष्मापहं च स्मृतम् ॥ इत्युपभोग्यवस्त्रगुणाः । इत्थं विमथ्य गुणपांसुसुधाम्बुराशिं लब्धापरामृतरसं सुरतं च तस्मात् । निर्मायि भोजनकुतूहलमीश्वराणां तोषाय तेन परितुष्यतु शेषशायी ॥ संसेविता नरवतस्तरवश्च दृष्टा यैनं क्षितौ जनपदेषु च तेषु तेषु । भैषज्यतन्त्रमपि नैव कृतं स्वतन्त्रं तेषां कृतेऽपि च कृतं रघुनाथनाना ।। अनन्तदेवान्मनसा विधायाप्यनन्तदेवस्य विधाय सेवाम् । योऽनन्तदेवः प्रथितः पृथिव्यामनन्तदेवः परितोषमेतु ॥ Colophon: इति श्रीमद्विद्वन्दवन्द्यपादारविन्दश्रीमदनन्तदेवदयोदयस्य रघुनाथविदुषः कृतौ भोजनकुतूहले द्रव्यगुणागुणकथनं नाम प्रथमः परिच्छेदः ।। भोः पटुवादाः(ण्डिताः) कृतधियः शृणुतामलां नो वाचं विविच्य विभवाय चिरं प्रसूताम् । संसेवयन्तु विमलं कमलान्तरङ्गमेनं रसं न रसितुं प्रभवन्तु भेकाः ॥ यदि पूतिगन्धबहुले वारिणि बद्धादरः पोत्री । स्पृहयति पा(वा)रि न गाङ्गं गुरु गीर्वाणैरपाकृतं किं स्यात् ॥ For Private and Personal Use Only
SR No.020208
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 23
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages240
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy