SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THR SANSKRIT MANUSCRIPTS. 8949 नमामि धन्वन्तरिमादिदैवं सुरासुरैर्वन्दितपादपद्मम् । लोके जरारुग्भयमृत्युनाशं दातारमीशं विविधौषधीनाम् ।। अनेकदेशान्तरभाषितेषु सर्वेष्वथ प्राकृतसंस्कृतेषु । गूढेष्वगूढेषु च नामसङ्ख्या द्रव्याभिधानेषु तदौषधेषु ।। प्रयोजनं यस्य तु यावदेव तावत्स गृह्णाति यथाम्बु कूपात् । तथा निघण्टुम्बुनिघेरनन्तात् गृह्णाम्यहं किञ्चिदिहैकदेशम् ॥ नामोक्तमेकस्य यदौषधस्य नामापरस्यापि तथैव चोक्तम् । शास्त्रेषु लोकेषु च यत्प्रसिद्ध संगृह्यतेऽसौ पुनरुक्तिदोषः ।। तुल्याभिधानानि तया(था)वशिष्टद्रव्याणि योगेषु निवेशितानि । अर्थाधिकारागमसम्प्रदायैः विधाय शास्त्रेण च तान् नियुझ्यात् ।। किरातगोपालकतापसाश्च वनेचरा ये कुशलास्तथान्ये । वदन्ति नानाविधभावमेषां प्रमाणवर्णाकृतिनाममी(जा)ति ॥ तेभ्यः सकाशादुपलभ्य वैद्यः पश्चात्स्वशास्त्रेण विमृश्य बुद्ध्या। विकल्पयद्रव्यरसप्रभावा विपाकवीर्याणि तथा प्रयोगात् ॥ प्रयोजनाः सन्ति वनेचरास्ते गोपादयः प्राकृतनामतज्ज्ञाः । प्रयोजनार्था वचने प्रवृत्तिः यस्मादतः प्राप्त(कृ)तमित्यदोषः । तस्मान्निघण्टुरित्येषा नातिसक्षेपविस्तरम् । हिताय वैद्यपुत्राणां यथावत्संप्रकाश्यते ॥ द्रव्यावलिविशिष्टानां द्रव्याणां नामनिर्णयम् । लोकप्रसिद्ध वक्ष्यामि यथागमपरिक्रमम् ॥ कचिदुक्तं विपर्यस्तमिष्टनामैषु तद्यथा । मधुपर्णी वेतसारो रोहिणीकटुकादिका ।। द्रव्यावंलिं विना वैद्यास्ते वैद्या हास्यभाजनम् । निघण्टुवैद्यपुत्राणां तृतीयमिव लोचनम् ।। पीठिकाधिकारः ॥ गुलूच्यतिविषा मूर्वा मञ्जिष्ठा धन्वयादकः ।। वाशा खनिरनिम्बैश्च पिबेत् क्वार्थ कफज्वरे ॥ 663-A For Private and Personal Use Only
SR No.020208
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 23
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages240
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy