________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
894]
Beginning:
श्रियं त्रिलोकीतिलकायमानामात्यन्तिकी ज्ञातसमस्ततत्वाम् । मुवागतिं (?) सम्मतिमुज्ज्वलोक्तिं वन्दे सुरेन्द्रं हतमोहतन्त्र(न्द्र)म् ।। नत्वा पञ्च गुरून् भक्तया वैद्यपुत्रहिताय च । सर्वशास्त्रानुसारेण लिख्यन्ते द्रव्यनिश्चयाः ॥ प्रणिपत्य गणाधीशं नत्वा देवी सरस्वतीम् । तन्त्रेभ्यः सारमुद्धृत्य वक्ष्ये द्रव्यगुणावलिम् ॥ एकविंशतिभिर्वगैर्वक्ष्यमाणैः क्रमादिभिः । प्राणिनां मूलमाहारसरसाः षडधिष्ठितः ॥ ते द्रव्यं तद्विधा भेदाः द्रव्याद्रव्यमिति स्मृतम् । चराचरस्य लोकस्य द्रव्यमेव हि कारणम् ॥ प्रधानमम्बु तत्रापि विश्वं जलमयं तथा । तस्मात्तोयस्य वर्ग प्राक् प्रोच्यते तदनन्तरम् ॥ क्षीरस्य दध्नस्तकस्य नवनीतस्य सर्पिषः । मूत्रस्य तैलस्य क्षोस्य (?) पृथक् स्यान्मधुमद्ययोः ॥ शकशिम्बिजधान्यानां पकान्नस्यामिषस्य च । मत्स्यशाकप्रसूनानां मांसपकफलस्य च ॥ विविधस्यौषधस्यात्र जलभेदं निरूप्यते । अथातः संप्रवक्ष्यामि तोयवर्ग सुविस्तरम् ॥ आपः प्राणस्तु सर्वेषां तस्मादादौ विलिख्यते । प्रात्य खर्परं तस्य जलजातं प्रकारयेत् । दीपाग्निदिवसं प्रोक्तं साङ्गशीतलमुद्धरेत् ॥ पक्षकीथमधोयन्त्रं प्रथपौरवउदधिम् (१) । सर्वकर्माणि दोषांश्च निर्वत्यै जायते दृढम् ॥
End: .
No. 13273. द्रव्यगुणपाठः, आन्ध्रटीकासहितः. DRAVYAGUŅAPĂȚHAỊ WITH TELUGU MEANING. Pages, 21. Lines, 32 on a page.
Begins on fol. 100a of the MS. described under No. 13190. Incomplete. Similar to the above.
For Private and Personal Use Only