SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3929 वामोत्सने वहन्तं विविधमणिगणालंकृतामुज्वलाङ्गी शर्वाणी स्वानुरूपां तमनिशममृतेशाख्यमीशं स्मरामि ॥ श्रीमन्महेशनलिनासननिर्जरेन्द्रस्तत्राश्विनावथ ततोऽत्रितनूद्भवश्च । धन्वन्तरिश्चरकसुश्रुतसूरिमुख्याः तेऽस्यायुरागमकृतः कृतिनो जयन्तु ॥ भक्तया । शम्भुं प्रणम्य शिरसा स्वगुरूनुपास्य पित्रोः पदाब्जयुगले प्रणिपत्य विघ्नेशितारमधिगम्य सरस्वती च प्रारम्भि भेषजनिकायनिघण्टुराजः ॥ धन्वन्तरीयमदनादिहलायुधादिविश्वप्रकाश्यमरकोशसशेषराजौ । आलोक्य लोकान्विदितांश्च शब्दान् द्रव्याभिधासङ्ग्रह एव सृष्टः ॥ आयुःकृतीनामतुलोपकारं धन्वन्तरिग्रन्थमतानुसारम् । आचक्ष्महे लक्षणलक्ष्यसारं नाम्ना स्वयं सर्वरुजापसारम् ॥ निर्देशलक्षणपरीक्षणनिर्णयेन नानाविधौषधविचारपरायणो यः । सोदि(ऽधी)त्य यत्सकलमेनमुपैति सर्व तस्मादयं जयति सर्वनिघण्टुराजः ॥ नानाविधौषधिजवीर्यविपाकभावप्रस्तावनिस्तरणपण्डितचेतनोऽपि । मुह्यन्त्यवश्यमनपेक्ष्य निघण्टुमेनं तस्मादयं विरचितो भिषजां हिताय ॥ निघण्टुना विना वैद्यो विद्वान् व्याकरणं विना । अनभ्यासेन धानुष्कस्त्रयो हास्यस्य भाजनम् ॥ नानादेशविशेषभाषितवशाद्यत्संस्कृतप्राकृतापभ्रंशादिकनाम्नि शब्दगणनाद्रव्याश्च यस्याहृतौ । तस्मादत्र तु यावदप्युपकृतिस्तावन्मया गृह्यते पाथोधिः परिगृह्यते किमखिलं तद्वारि वारांनिधिः ।। आभीरगोपालपुलिन्दतापसाः पान्थास्तदन्येऽपि च पन्नचारकाः । परीक्षितव्या विविधौषधाभिधा रसादिलक्ष्याणि ततः प्रयोजयेत् ॥ वर्गानुक्रमाणिका - आनूपादी सदास्मादवनिरुहगडूचीशताहादिको द्वौ तत्प्रान्ते हाटकादिस्तदुपरि पठितः पिप्पलीमूलकादिः । शाल्मल्यादिप्रभद्रादिकमनु करवीरादि चाम्रादिकं स्यात् तस्याग्रे चन्दनादिस्तदनु निगदितः कोमलः काश्चनादिः ।। For Private and Personal Use Only
SR No.020208
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 23
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages240
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy