________________
Shri Mahavir Jain Aradhana Kendra
Beginning:
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
लीला गृहीतगात्रं नवरसपात्रं सुतं यशोदायाः । श्रीमानुतरङ्गिण्या नौकायाः कर्णधारमहमीडे ||
गङ्गारामेण मया यत्नात्कोपादिव बलरामेण । प्राक्प्रवणाप्यर्वाक्प्रवणासौ क्रियते तरङ्गिणी भानोः ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रारिप्सित प्रतिबन्धक दुरितविध्वंसकपटीय सीमाशिषं शिष्यशिक्षायै निबध्नन् श्रीमानुदत्तमिश्रो निरूपणीयरसस्योत्तमनाय कालम्बनतया पुरुषोत्तमं परामृशति — लक्ष्मीमिति । पीतवासाः श्रीकृष्णोऽत्र । पीतवासः पदमप्युपसर्गककर्मक्तान्तेणूषातुनिष्पन्नम् अपीतानि अपहृतानि वासांसि परिधानीयानि अर्थात् गोपीनां येन सः इत्यर्थमावेदयत्तस्मिन्नेवमादिनानाविध क्रीडाविटत्वमवगमयते । सोऽयं शब्दशक्तिमूलध्वनेरध्वा । अनयैव दिशा व्युत्पत्तिभेदसहकारेण पीतवासः पदं सर्वरसानुगुणं मत्वा तदेवोपनिबद्धं ग्रन्थकृता ।
End:
4
8681
स्वकीर्त्यनुवृत्तेर्विद्वत्परिशीलनं बिना दुर्घटत्वं मन्वानस्तान् प्रार्थयते - वि. द्वारिधरा इति । हे पण्डिताः हे वागमृतप्रयोक्तार इत्यर्थः । स्वग्रन्थोदाहरणेषु परकीयत्वाशङ्कां वारयन् देवताप्रसादाय. कविर्भारतीसमधिष्ठात्री देवतां प्रार्थयतेअवगाहस्वेति । दिव्यां निमज्जनोन्मज्जनक्रीडाहेतुम् ; गूढागूढव्यङ्गयामिति या - वत् । स्वकीर्त्यनुवृत्तये स्वस्य ग्रन्थस्य च तां निबध्नन् स्वयशःप्रश्रयित्रीमेनामाशास्ते यावदिति । कापि काचन नदीव रसाद्भुता मे भानोरिति तरङ्गिणीपदप्रवृत्तिनिमित्तमुक्तमिति विरम्यते ॥
Colophon:
इति जड्युपनामगङ्गारामविरचितायां नौकाख्यायां रसतरङ्गिणीव्याख्यायामष्टमस्तरङ्गः ॥
No. 1931. रसतरङ्गिणीव्याख्या – नौका.
RASATARANGIŅIVYAKHYA: NAUKĀ.
Substance, paper. Size, 12 x 73 inches. Pages, 200. Lines, 26 on & page. Character, Telugu. Condition, fair. Appearance, old.
Complete.
Same work as the above.
646-A
For Private and Personal Use Only