________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
किं लोचनं विना लोको भाति चन्द्रिकयैव हि । तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यधात् ॥
यदुन्मीलनयुक्तचैव विश्वमुन्मीलति क्षणात् । स्वात्मायतनविश्रान्तां तां वन्दे प्रतिभां शिवाम् ||
Colophon :
इति श्रीमहामहोपाध्याय श्रीमहामहेश्वराभिनवगुप्तोन्मीलिते सहृदयालोकलोचने ध्वनिसङ्केते प्रथम उद्योतः ||
End:
8667
ग्रन्थकाराः स्वनामनिबन्धनं कुर्वन्ति तदभिप्रायेणाह — आनन्दवर्धन इति । प्रथितशब्देनैतदेव प्रथितं यत्तदेव नामश्रवणं केषांचिन्निवृत्तिं करोति । यस्मात् मात्सर्यविजृम्भितं नात्र गणनीयम् । निःश्रेयसप्रयोजनादेव हि श्रुतात कोविरोध (ऽपि रागा )न्धो यदि निवर्तते किमेतावता प्रयोजनमपिं अवक्तव्यमेव स्यात् । तस्मादर्थिनां प्रवृत्यङ्गं नाम प्रथितमिति सिद्धम् ॥
स्फुटीकृतार्थवैचित्र्यबहिः प्रसरदायिनीम् ।
तु शक्तिमहं वन्दे प्रत्यक्षार्थनिदर्शनीम् ॥
आनन्दवर्धनविवेकविकासि काव्यालोकार्थतच्वघटनादनुमेयसारम् । यत्प्रोन्मिषत्सकलसद्विषयप्रका शिव्यापार्यताभिनवगुप्तविलोचनं तत् ॥ श्रीसिद्धिचेलचरणाब्जपरागपूतो भट्टेन्दुराजमतिसंस्कृत बुद्धिलेशम् ( : ) । काव्यप्रमाणपदवेदिगुरुप्रबन्धसेवारसो व्यरचयद् ध्वनिवस्तुवृत्तिम् ॥ सज्जनात्कविरसौ न याचते ह्लादनाय शशभृत् किमर्थितः । नैव निन्दति खलान्मुहुर्मुहुः स्वीकृतोऽपि न च शीतलोऽनलः ॥ बस्तुतः शिवमये हृदि स्फुटं सर्वतः शिवमयं विराजते । नाशिवं कचन कस्यचिद्वचस्तेन वः शिवमयी दशा भवेत् ॥ Colophon:
इति महेश्वराभिनवगुप्तोन्मीलिते काव्यालोकलोचने चतुर्थ उद्द्योतः ॥
No. 12894. ध्वन्यालोकव्याख्यानम् - लोचनम् .
DHVANYĀLOKAVYĀKHYĀNAM – LOCANAM. Pages, 24. Lines, 18 on a page.
Begins on fol. 1a of the MS. described under No. 3894. Contains the fourth Uddyota only.
Same work as the above.
For Private and Personal Use Only