________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
66
THE SANSKRIT MANUSCRIPTS.
8659
ज्ञात्वा मया विरचितं स्फुटलक्षणानामर्थं यथामति गभीरतरं स्वबुद्ध्या । व्याख्या कृता यदि कोऽपि सदोषता स्यात् तत्रापि भूषणकृतिः सुधियां [विधेया ॥ तत्रार्थचित्रमीमांसां करिष्यमाणोऽप्पयदीक्षितः प्रारिप्सितप्रतिबन्धकविघ्नविघाताय शब्दस्वरूपमखिलं धत्ते शर्वस्य वल्लभा । अर्थस्वरूपमखिलं धत्ते बालेन्दुशेखरः || ” इत्यादिनोक्तरूपं शिवयोरनुसन्धानात्मकं मङ्गलं विरचयन् स्वकीयग्रन्थस्य नाम निबध्नन् प्रतिजानीते - अभिवन्द्येति । चन्द्रशेखरमभिवन्द्य अर्थचित्रमीमांसामहं वितनोमीत्यन्वयः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ निरूपणीयानामलङ्काराणामाश्रयभूतं यत्काव्यं तस्य विभागमाहत्रिविधमिति । तावदिति प्राथम्येऽव्ययं वाक्यालङ्कारे वा । काव्यं लोकोत्तरवर्णनानिपुणस्य कवेरसाधारणं वर्णनात्मकं कर्म । तत् ध्वनिगुणीभूतव्यङ्ग्यचित्रभेदात् त्रिविधमित्यनुषङ्ग ।
यथा -- दिव्यहरेर्मुखकुहरे विस्तीर्णे पर्णति व्योम । अत्र वर्ण्यस्योपमेयस्य गगनापेक्षया हीनपरिमाणत्वेऽपि नृसिंहमुखपरिणाहवर्णन एव तात्पर्यात्तस्य न दोषत्वमित्याद्यम् । एतदन्तः कृत्याह - अन्येऽपीति । प्रकारा भेदा विचारणीया इत्यलम् ।
धरानन्देन रचितेोपमाव्याख्यानसङ्ग्रहः ।
टीकायां चित्रमीमांसासुधायामाप पूर्णताम् ||
Colophon:
इति वसिष्ठगोत्रीयमिश्ररामबलस्य सुतेन धरानन्देन रचितायां चित्रमीमांसा - टीकायां सुधाख्यायामुपमालङ्कारप्रकरणव्याख्या समाप्ति[ता]मगमत् ।
End:
भगवडियोगदुःखं चिन्ताहादौ प्रतीयेते इति निगीर्याध्यवसानरूपातिशयोक्तिद्वयप्रतीतेर्व्यङ्ग्यस्य सच्वात् इयमतिशयोक्तिः । श्रुतिस्मृत्योरपि " द्वा सुपर्णा 'संयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वच्यनश्नन्नन्यो अभिचाकशीति ॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ " इत्यादौ स्पष्टत्वादिति सर्व शिवम् |
66 59
धरानन्देन रचितातिशयोक्त्यर्थबोधिनी । व्याख्यार्थचित्रमीमांसासुधायामाप पूर्णताम् ॥
For Private and Personal Use Only