________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8640
A DESCRIPTIVE CATALOGUE OF कृता यैरर्थानां कृतिषु नयचर्चा सदसतां प्रभेवाभिव्यक्तिं प्रजनयति भासामधिपतेः ॥ पावनी वामनस्येयं पदोन्नतिपरिष्कृता । गम्भीरा राजते वृत्तिः गङ्गेव कविहर्षिणी ।। प्रबन्धं तालानां भवनुतिमिषेणातनुत यः शिलाक्प्ताकारा नटनकरणानामपि भिदाः । स वृत्तव्याख्यानं सकलरचनं वामनकृतेः विधत्ते गोपेन्द्रत्रिपुरहरभूपालतिलकः ॥ पावनपदविन्यासा समग्ररसदोहशालिनी भजताम् । घटयति कामितमर्थ काव्यालङ्कारकामधेनुरियम् ॥ यत्रोपयुज्यते यावत् तावत्तत्र निरूप्यते । प्रसङ्गानुप्रसङ्गेन नात्र किञ्चित् प्रपश्च्यते ॥ अभ्यर्थिके मय्यनुकम्पया वा साहित्यसर्वस्वसमीहया वा । मदीयमार्या मनसा निबन्धमिमं परीक्षध्वममत्सरेण ॥ अध्याये प्रथमे काव्ये प्रयोजनपरीक्षणा । अधिकारिविचारश्च द्वितीये रीतिनिश्चयः ।। काव्याङ्गकाव्यभेदानां तृतीये प्रतिपादनम् । तुर्ये पदपदार्थानां दोषतत्त्वविवेचनम् ॥ वाक्यवाक्यार्थदोषाणां पञ्चमे तु प्रपञ्चनम् । गुणालङ्कारभेदस्तु षष्ठे शब्दगुणास्तथा ॥ सप्तमेऽर्थगुणाश्शब्दालङ्काराः पुनरष्टमे । उपमा नवमे तस्याः प्रपञ्चो दशमे भवेत् ॥ काव्यस्यैकादशे संवित् द्वादशे शब्दशोधनम् ।
इत्येष द्वादशाध्यायप्रमेयानामनुक्रमः ॥ अथ ग्रन्थकारः स्वकर्तृकाणि सूत्राणि व्याकर्तुकामः प्रारम्भ एव प्राचीनाचार्यपरम्परासमाचारपरिप्राप्तकर्तव्यभावोतकर्तव्यताविशेषरूपमङ्गलानुष्ठानेन स्वयंप्रारिप्सितग्रन्थपरिसमाप्तिपरिपन्थिप्रत्यूहव्यूहप्रतिहननप्रगल्भसमग्रदेवतानुग्रहसम्पन्नोऽपि व्याख्यातृश्रोतृणामविघ्नव्याख्यानश्रवणलाभाय ग्रन्थादौ तन्मङ्गलनिबन्धनपूर्वकं तत्प्रवृत्तिसिद्धये विषयप्रयोजनानि दर्शयन् आयेन पद्येन
For Private and Personal Use Only