________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8632
A DESCRIPTIVE CATALOGUE OF
इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं प्रवर्तते (न दीप्यते) ॥ ४ ॥ आदिराजयशो(बि)म्बमादर्श प्राप्य वाङ्मयम् । तेषामसन्निधानेऽपि स्वयं पश्य न नश्यति ॥ ५ ॥ गौ!ः कामधुगानम्य प्रयुक्ता स्मर्यते बुधैः । दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुं नैव शस्यति ॥ ६ ॥ तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथञ्चन । स्याद्वपुस्सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥ ७ ॥ गुणदोषौ न शास्त्रज्ञः कथं विभजते जनः । किचुन्द(मन्ध)स्याधिकारोऽस्ति रूपभेदोपलब्धिषु ॥ ८ ॥ अतः प्रजानां व्युत्पत्तिमभिसन्धाय सूरयः । वाचा विचित्रमार्गाणां निबबन्धुः क्रियाविधिम् ॥ ९ ॥ तैश्शरीरञ्च काव्यानामलङ्कारश्च दर्शितम् । शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावलिः ॥ १० ॥ पद्यं गद्यश्च मिश्रञ्च तत्रिधैवं व्यवस्थितम् । पद्यं चतुष्पदं तच्च वृत्तं जातिरिति द्विधा ॥ ११ ॥ छन्दोविचित्यां सकलस्तत्प्रपञ्चो निदर्शितः । सा विद्या न(नौ)स्तितीप्रूणां गम्भीरं काव्यसागरम् ॥ १२ ॥ मुक्तकं कुलकं कोशः सङ्घातश्चापि तादृशः । सर्गबन्धाङ्गरूपत्वादनुक्तः पद्यविस्तरः ॥ १३ ॥ सर्गबन्धो महाकाव्यमुच्यते काव्यलक्षणम् । आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ॥
End:
ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् । अबलाविरहक्लेशविह्वलो गणयत्यलम् ॥ प्रमेयोऽप्यप्रमेयोऽसि सकलोऽप्यसि निष्कलः । एकस्त्वमप्यनेकोऽसि नमस्ते विश्वमूर्तये ॥ पञ्चानां पाण्डुपुत्राणां पनी पाश्चालकन्यका । सीत(सती)नामग्रणीप्या(श्चा)सीत् दैवो हि विधिरीहशी(श) ॥
For Private and Personal Use Only