________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
'8627
Beginning :
नामरूपात्मकं विश्वं यस्य लीलामयं वपुः । प्रकाशाय नमस्तस्मै सविमर्शाय शम्भवे ।। स्वरूपज्योतिषो वाचः परायाः प्रसरोर्मयः । आविर्भवन्तु मे वक्रादर्थयाथार्थ्यदीपिकाः ॥ श्रीचक्रवर्तिकविना संप्रदायप्रकाशिनी । टीका काव्यप्रकाशस्य बृहतीयं विरच्यते ॥ नेह संतन्यतेऽस्माभिर्वृथा सन्दर्भडम्बरः । व्याख्येयवस्तुयाथार्थ्यप्रकाशैकपरायणैः ।। सन्तो मामनुगृहन्तु येऽधिका ये च मे समाः । .
अन्ये यथेष्टं चेष्टन्तां तानहं वेद्मि तत्त्वतः ॥ वस्तुनिर्देशमेवेष्टदेवतानुसन्धानात्मकमभिसन्धायाह वृत्तिकारः-ग्रन्थारम्भइत्यादिना । ग्रन्थस्याविनेन परिसमाप्तिः प्रचयावाप्तिश्च विघ्नानां विघातः समुचितेत्यनेनेष्टत्वे सत्यपि अधिकृतायां देवतायां प्रतिपत्तिगौरवार्हत्वननुसन्धत्ते । काव्यमी. मांसाशास्त्रारम्भे हि कविवायूपा देवतैवाधिकृतेति समुचिता । परामृशति नमस्कर्तव्यत्वेनानुसन्धत्ते । नियतिः नियामिका शक्तिः । यदुक्तं तान्त्रिकैः नियतिनियमनरूपेति । End:
एष मार्गः सन्दर्भसरणिः विदुषां विभिन्नोऽपि परस्परस्य विलक्षणोऽप्यभिन्नरूपो यत् प्रतिभासते मन्मथसन्दर्भमनुरूपो यत्प्रतीयते न तद्विचित्रम् । यतोऽत्र भिन्नरूपप्रतिभासे चित्रं विनिर्मिता स्वां रेखां परित्यज्य मन्मथविजित्यनुसारेण विविधमस्माभिर्विरचिता ग्रन्थसङ्घटनैव हेतुः । इतरसरण्यनुसारेणापि प्रणयननिपुणत्वेन द्योतितमिति शिवम् ॥
सम्यक प्रकाशिता सेयं श्रीविद्याचक्रवर्तिना । टीका काव्यप्रकाशस्य सम्प्रदायप्रकाशिनी ।। काव्यप्रकाशेऽलङ्कारसर्वस्वे(च) सचेतसाम् । योऽनादरो महांस्तेन व्याख्यातमुभयं सह ॥ यस्मिन्नंशे झटिति न भवत्यर्थसंवित्तिरस्यां सोऽधोमूले विषमविषमो मूलमालोक्य भूयः ।
For Private and Personal Use Only