________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
8625
Breaks off in the sixth Ulläsa.
A commentary composed by Mahamahōpādhyāya Bhavadeva, son of Kṛṣṇadeva and pupil of Bhavadē vaṭhakkara, on the Kāvyprakāśa of Mammata. The commentary is called Lila.
Beginning :
श्रवणमननचञ्चच्यानलीलाविलासे मनसि नियत योगैर्योगिभिर्वीक्ष्यते यः । प्रवचनरचनासु व्यज्यते व्यञ्जनाभिः स जयति रसरूपो ब्रह्मरूपो महेशः ॥ यो नाट्येऽभिनये वचः प्रवचने व्यक्तादिभिर्व्यञ्जितो योगे योगिभिरीक्षितः परिचितो भोगेऽपि भाग्योत्तरैः । सर्वत्रैव गुरूपदिष्टविधिना दृष्टो विशिष्टैर्जनैः श्रीमानेस (प) मुदर्णवो हरिहरब्रह्मादिरास्ते हृदि ॥ या सूक्ष्मान्तरनुगता हृदि गता मध्याक्षरैरूहिता पश्यन्ती वदनाम्बुजेषु विदुषां स्यादुद्रटा वैखरी । सा श्रीनीलसरस्वती भगवती त्रैलोक्यसंतारिणी तां वाग्दैवतदेवता वचसि मे देयान्मुदं या परा ॥ त्वा श्रीगणनायकं गिरिसुताकान्तं च मूर्त्यष्टकं श्रीकान्तं च गुरूंश्च सज्जनतमानन्यान् कवीन्द्रानपि । शिष्यः श्रीभवदेवठक्करगुरोः श्रीकृष्णदेवात्मजो व्याख्यां श्रीभवदेव एष कुरुते काव्यप्रकाशाश्रिताम् ॥ कति कति न कवीन्द्राः कल्पयन्तीह काव्यं कति कति न च टीकां तत्प्रकाशेऽपि तेनुः । तदपि जगति किञ्चिद्धस्तसंस्पर्शशीला
प्रजयति मम लीला कापि काव्यप्रकाशे ॥
For Private and Personal Use Only
काव्यप्रकाशलीला प्रजयत्यनुमान लीलया सार्धम् । मननं तया समन्तादनया प्रत्यक्षमीशस्य ॥
इह खलु सकलशिष्टाचारेण तदनुमितया श्रुत्या च प्रेक्षावान्निर्विघ्नप्रारब्धसमाप्तिकामो मङ्गलमाचरतीति ग्रन्थकृता नियतीत्यादिना कृतं मङ्गलं शिष्यारीक्षायै निबद्धमिति तत्तथाभि (वि)धाभिप्रायं प्रकटीकरोति । गकारादिना गणेशादिस्मृतिस्वरूपं, समुचितेष्टदेवताय ( प ) दादिना भारतीस्मृत्युत्कीर्तनस्तुत्यादिस्वरूपं च