________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8616
A DESCRIPTIVE CATALOGUE OF
तस्मात् सर्वत्र सहृदयहृदयानुद्वेगकरा दोषा न परिहरणीया इति सर्व निरवद्यम् ॥
अधीत्य निखिल शास्त्रमग्रजादीश्वरेष्टिनः । विदुषां प्रीतये येन वा . . . . . . ॥ यत्ता(न)विनैव विहितो येन तन्त्रशिखामणिः । नव्या सङ्कर्षकाण्डस्य न्यायमुक्तावली तथा ॥ व्याकृता याजुषी शाखा तथोपनिषदोऽखिलाः । प्रणीता चामिहोत्रादेः प्रायश्चित्तप्रदीपिका । न्यायचूडामणिर्नाम्ना न्यायजालोपबृंहिता || रुचिदत्तस्य च व्याख्या रुचिरा येन निर्मिता । मणिदर्पणनामानं महितं वाङ्मुखं मणेः ॥ खण्डत्रयस्य दुर्वादिखण्डनाय व्यधातु यः । येन शृङ्गारसर्वस्वनामा भाणोऽप्यभण्यत ॥ यश्चैकाहा भोजचम्पोर्युद्धकाण्डमपूरयत् । येन भारतचम्पुश्च वृत्ततारावली तथा ॥ विहिते शङ्कराचार्यतारावल्याः सहोदरे । सर्वतन्त्रस्वतन्त्रस्य श्रीनिवासमखीशितुः । कर्तुर्विश्वजितो येन तातस्य यमिता कथा ॥ रघुवीरस्य कृष्णस्य वासवानां च यः कथा(म्) । प्रत्यक्षर श्लेषमयैः पद्यैहृद्यैरवर्णयत् ॥ यमिता मञ्जुभाषिण्या येनास्ती(न सी)तापतेः कथा ॥
शङ्कराभ्युदयाभिठ्यं काव्यं येनैव निर्मितम् ॥ कंसकाव्यमिकस्वधं (सध्वंसाभिधं) रुक्मिण्युद्वाहमपि यो व्यधात् ।
येनोदिता कमलिनीकलहंसाख्यनाटिका । आनन्दराघवं नाम नाटकं च प्रपञ्चितम् ॥ येनाप्यतान्यलङ्का(र)चूडामण्य(भि)धा कृतिः । तथा वृत्तिविवेकेन विचित्रा चित्रमञ्जरी ॥
For Private and Personal Use Only