________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8614
A DRBORIPTIVE CATALOGUE OF
चन्द्राश्रयोज्ज्वलकलङ्कमषीव यद्वा
चन्द्रानना नयनकजलकालिकेव ॥ इह किल काव्यं दृष्टादृष्टपुरुषार्थसाधनतया सर्वेषां पुरुषाणामुपादेयमिति तावत्सिद्धम् । तदुक्तं काव्यप्रकाशे-काव्यं यशसे . . पदेशयुजे ॥ इति । प्रतिपादितं च धर्मसूरिणा--
विश्वोल्लङ्घनजाविकां वितनुते कीर्ति विधत्ते श्रियं हेलालचितयक्षराजविभवां चिन्ताकरं हन्त्यघम् । दुग्धे स्वादुतरान् रसान्वितरति स्फारं कलाकौशलं
काव्यं निर्वृतिमावहत्यपि परिस्पन्दावहं चेतसः ॥ इति । अत्र काव्यस्य कीर्तनद्वारा स्वर्गादिरपि फलं बोध्यम् ।
काव्यज्ञानां गुरूणां शिक्षया पुनःपुनः प्रवृत्तिरभ्यासः । तदुक्तम्गुरूणामन्तिके नित्यं काव्ये यो रचनादरः । अभ्यासो भण्यते सोऽयमलङ्कारेषु कोविदः ॥ इति । प्रथमं सुलभच्छन्दसा लोकदृष्टव्यापारैः कार्यः । यथा
विशालाक्षि निशा लेपं करोत्यङ्गे मनोहरे । वयस्य पश्य वापीयं प्रसत्रसलिलान्तरा ॥ संभावयात्र रम्भोरुमम्भोवहनसत्वराम् । अत्रायं ब्राह्मणः स्वाति मित्रालोकय चक्षुषा । अयं माणवको वेदमधीते गुरुसन्निधौ ।
छात्रोऽयं शास्त्रपठनं तनुते पश्य भो सखे ॥ मदीये कृष्णराजजयडिण्डिमे
कृष्णनृपालकृपाणीचपलायां पाणिसरणिचपलायाम् । अरिवनितानयनपथादृष्टिर्जज्ञे चतुर्दिक्षु ॥ वानां दिगियं प्रोक्ता यथालङ्कारशास्त्रकम् । वर्णनाकुशलैश्चिन्त्यमनेकविधमस्ति तत् ॥ उक्तवण्यरुपेतं यत् तन्महाकाव्यमिष्यते । कैश्चिद्वण्र्यैनमिति महाकाव्यमिति स्मृतम् ॥
End:
For Private and Personal Use Only