________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
8807 इह हि भामहोद्भटप्रभृतयस्तावच्चिरंतनालङ्कारकाराः प्रतीयमानमर्थ वाच्योपस्कारितयालङ्कारपक्षे निक्षिप्तं मन्यते । तथाहि पर्यायोक्ताप्रस्तुतप्रशंसासमा सोक्तचाक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन खसिद्धये पराक्षेपः परार्थ स्वसमर्पणमिति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः। रुद्रटेनापि भावालाकारो द्विधैवोक्तः। रूपकदीपकापह्नतितुल्ययोगितादावुपमालङ्कारो वाच्योपस्कारित्वेनोक्तः । रसवत्प्रेयऊर्जस्विप्रभृतौ तु रसभावादिः वाच्यशोभाहेतुत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता । तदित्थ त्रिविधमपि प्रतीयमानमलंकारतया ख्यापितमेव । वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्तयलङ्कारत्वं ब्रुवता कश्चित् ध्वनिभेदोऽलङ्कारतयोक्तः । केवलं गुणविशिष्टपदरचनामिका रीतिः काव्यात्मत्वेनोक्ता ।
End:
इदानीमुपसंहरतिएवमेते शब्दार्थोभयालङ्काराः संक्षेपतः सूत्रिताः ।
एवमिति पूर्वोक्तप्रकारपरामर्शः । एत इति प्रकान्तस्वरूपनिर्देशः । सूत्रिताः अलङ्कारसूत्रैः सूचनरूपेण प्रतिपादिताः । तत्र तावच्छब्दालकारा यमकादयः । अर्थालङ्कारा उपमादयः । उभयालङ्कारा लाटानुप्रासादयः । संसृष्टिसंकरप्रकारयोरपि कयोश्चिदलङ्कारात् लोकवदाश्रयाश्रयिभावश्च तत्तदलङ्कारत्वनिबन्धनम् । अन्वयव्यतिरेको तत्कार्यत्वे प्रयोजको न तु तदलङ्कारत्वे । प्रयोजकत्वे तु श्रौतोपमादेरपि शब्दालङ्कारत्वश्रवणा(प्रसङ्गात् । तस्मादाश्रयाश्रयिभावेनैव चिरन्तनमतानुसृष्टिः ॥ . Colophon:
इति मलको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः ।।
सुखविमुखालङ्कारं तदिदमलङ्कारसर्वस्वम् ॥ इत्यलङ्कारसर्वस्वं संपूर्णम् ॥
No. 12797. अलङ्कारसर्वस्वम्.
ALANKÁRASARVASVAM. Substance, palm-leat. Size, 182 x 13 inches. Pages, 81. Lines, Tong
page. Character, Telugu. Condition, slightly injured. Appearance, old.
For Private and Personal Use Only