SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8807 इह हि भामहोद्भटप्रभृतयस्तावच्चिरंतनालङ्कारकाराः प्रतीयमानमर्थ वाच्योपस्कारितयालङ्कारपक्षे निक्षिप्तं मन्यते । तथाहि पर्यायोक्ताप्रस्तुतप्रशंसासमा सोक्तचाक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन खसिद्धये पराक्षेपः परार्थ स्वसमर्पणमिति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः। रुद्रटेनापि भावालाकारो द्विधैवोक्तः। रूपकदीपकापह्नतितुल्ययोगितादावुपमालङ्कारो वाच्योपस्कारित्वेनोक्तः । रसवत्प्रेयऊर्जस्विप्रभृतौ तु रसभावादिः वाच्यशोभाहेतुत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता । तदित्थ त्रिविधमपि प्रतीयमानमलंकारतया ख्यापितमेव । वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्तयलङ्कारत्वं ब्रुवता कश्चित् ध्वनिभेदोऽलङ्कारतयोक्तः । केवलं गुणविशिष्टपदरचनामिका रीतिः काव्यात्मत्वेनोक्ता । End: इदानीमुपसंहरतिएवमेते शब्दार्थोभयालङ्काराः संक्षेपतः सूत्रिताः । एवमिति पूर्वोक्तप्रकारपरामर्शः । एत इति प्रकान्तस्वरूपनिर्देशः । सूत्रिताः अलङ्कारसूत्रैः सूचनरूपेण प्रतिपादिताः । तत्र तावच्छब्दालकारा यमकादयः । अर्थालङ्कारा उपमादयः । उभयालङ्कारा लाटानुप्रासादयः । संसृष्टिसंकरप्रकारयोरपि कयोश्चिदलङ्कारात् लोकवदाश्रयाश्रयिभावश्च तत्तदलङ्कारत्वनिबन्धनम् । अन्वयव्यतिरेको तत्कार्यत्वे प्रयोजको न तु तदलङ्कारत्वे । प्रयोजकत्वे तु श्रौतोपमादेरपि शब्दालङ्कारत्वश्रवणा(प्रसङ्गात् । तस्मादाश्रयाश्रयिभावेनैव चिरन्तनमतानुसृष्टिः ॥ . Colophon: इति मलको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः ।। सुखविमुखालङ्कारं तदिदमलङ्कारसर्वस्वम् ॥ इत्यलङ्कारसर्वस्वं संपूर्णम् ॥ No. 12797. अलङ्कारसर्वस्वम्. ALANKÁRASARVASVAM. Substance, palm-leat. Size, 182 x 13 inches. Pages, 81. Lines, Tong page. Character, Telugu. Condition, slightly injured. Appearance, old. For Private and Personal Use Only
SR No.020207
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 22
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages204
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy