________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRÍT MANUSCRIPTS.
8758
चाश्चल्यं किञ्चिदेतद्भरतमुपगते तावता चञ्चलत्वं शास्त्राख्याम्भोधिमुद्रामुकलितनयने यानि तत्राप्नुवन्ति । तं . . . . . . . . . भर्ग
श्रीपादाङ्गुष्ठसङ्गस्खलितततजगन्मङ्गलं सञ्चरेषु ॥ भरतं द्विविधम्- मार्गो देशीयमिति । तयोर्लक्षणं तु--
खरा ग्रामास्तथा जातिवर्धमानादिगीतकम् ।
आवापादिक्रियाबद्ध सप्तमार्ग इति स्मृतः ॥ आवापादिक्रियालक्षणन्त्वनुपदमेव वक्ष्यते । स च मार्गो द्विविधः-- जातिगानं मन्द्रगानं चेति । तथाचोच्यते--
स्थानश्रुतिस्वरग्राममूर्च्छनास्थानसंयुताः ।। साधारणा जातयश्च रागा मन्द्रादिगीतकम् ॥
Colophon:
इति श्रीमदभयचन्द्रमुनीन्द्र चरणकमलमधुकरायितमस्तकमहादेवार्यशिष्यस्वरविमलविद्यापुत्रसम्यक्तचूडामणिभरतभाण्डीकभाषाप्रवीणश्रुतिज्ञानचक्रवर्तिसङ्गीताकरनामधेयपार्श्वदेवविरचिते सङ्गीतसमयसारे प्रथमाधिकरणम् ।। End:
मीमांसाद्वयवेदान्तन्यायवैशेषिकर्मतैः । षड्भिस्तरगम्योऽपि गम्यो गीतेन शकरः ॥ पाराशर्यपराशरौ भृगुयमौ संवर्तकात्यायनावापस्तम्बबृहस्पती सलिखिता हारीतदक्षा मनुः । विष्ण्वत्री च सगौतमौ मुनिवरः शङ्कोऽपि दक्षा(त्ता)दयः
सर्वे मोक्षदमित्युशन्ति मुनयो गीतं तदेवोक्तितः ।। Colophon: इति पार्श्वदेवविरचिते सङ्गीतसमयसारे नवमाधिकरणम् ।।
श्रीपार्श्वजिनमानम्य देशीतालानुलक्षणम् । तालस्य लक्षणं वक्ष्ये पूर्वशास्त्रानुसारतः ॥ श्रीसोमेश्वरदत्तिलप्रभृतिभिस्तालस्वरूपं पुरा प्रोक्तं सर्वजगद्धिताय चतुरस्रादिप्रभेदान्वितम् ।
For Private and Personal Use Only