________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TRE SANSKRIT MANUSCRIPTS.
8749
End:
सूरिश्रीशाङ्गदेवेन नाट्यवेदाम्बुधेरिदम् । समस्तमुद्धृतं सारं धीरैरातृप्ति सेव्यताम् ।। ग्रन्थे मदीये यदि कश्चदस्ति गुणस्ततस्तस्य परिग्रहाय । नाभ्यर्थये वः सुधियः परेषां गुणोऽणुरप्यद्रिसमो भवत्सु ॥ सावद्यता वा निरवद्यता वा ग्रन्थे मयात्र ग्रथिते तया किम् । आराधने च(वः) प्रवणा मतिर्मे सन्तो गुणः कं ननु नातिशेते ॥ यस्य क्षोदक्षम वस्तु किमत्रास्ति जगत्रये । किंतु मत्प्रेमतः सन्तः पुरस्कुरुत मे कृतिम् ॥ यद्वा पुराणं पन्थानं मुनीनामहमन्वगाम् । निह्यन्ति च निसर्गेण सन्तः सन्मार्गगामिनः ॥ आरिराधयिषोः साधून् किं प्रज्ञाविभवेन मे । राममानन्दयन्ति स्म तिर्यश्चोऽपि कपीश्वराः ॥ न विद्यादर्पतो ग्रन्थप्रवृत्तिर्मम किं त्विदम् । विद्वन्मानसवासाय गन्तुं पाथेयमस्त्विदम् ॥ बुभुत्सा यत्र तत्र स्यात्तत्र पादः प्रवर्तते । . दूषणोद्भावनाहीनो मतोऽसो गुरुशिष्ययोः ॥ विजिगीषोर्भवेदन्यः साधनैर्दूषणैरतः । पराजितः स च ज्ञातायत्र निस्खलितश्च यः ॥ सा वितण्डॉ भवेजल्पः संविदं विदुरन्वितम् ।
दूषयत्येव यः कश्चित् प्रतिवादी न साधकः ॥ Colophon:
इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिसोड्ढलनायकनन्दननिःशङ्कशार्ङ्गदेवविरचिते संगीतरत्नाकरे नर्तनाध्यायः सप्तमः समाप्तः ॥
संगीतरत्नाकरः समाप्तः ॥
No. 13020. सङ्गीतरत्नाकरः.
SANGITARATNAKARAH. Substance, palm-leaf. Size, 17x18 inches. Pages, 384. Lines,mona
page. Character, Telugu. Condition, fair. Appearance, old. Complete. Same work as the above.
For Private and Personal Use Only