________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
यज्वभिर्धर्मधीधुर्यैर्वेदसागरपारगैः । यो द्विजेन्द्रैरलंचके ब्रह्मभिर्भूगतैरिव ॥ तत्राभूद्भास्करप्रख्यो भास्करस्तेजसां निधिः । अलंकर्ते दक्षिणाशां यश्चक्रे दक्षिणायनम् ॥ तस्याभूत्तनयः प्रभूतविनयः श्रीसोड्म (ढ) लः प्रौढधीयेन श्रीकरणप्रबुद्धविभवं भूवल्लभं भिल्लमम् । आराध्याखिललोकशोकशमनी कीर्तिः समासादिता जैत्रे जैत्रपदं न्यधायि महती श्रीसिंहणे श्रीरपि ॥ एकः क्ष्मावलये क्षितीश्वरमिलन्मौलीन्द्रनीलावलि
प्रोदञ्चद्युतिचुम्बिताङ्घ्रिनखरज्योतिर्नृपालाग्रणीः । श्री (मत् ) सिंहणदेव एव विजयी यस्य प्रतापानलो विश्वव्याप्यपि दंदहीति हृदयान्येव द्विषामुडुरः ॥ तं प्रसाद्य सुधीधुर्यो गुणिनं गुणरागिणम् । गुणग्रामेण यो विश्वमुपकारैरतीतृपत् ॥
ददौ न किं न किं जज्ञौ न दधौ कां च संपदम् । कं धर्म विदधौ नैष न बभौ कैर्गुणैरयम् ॥ तस्माद्दुग्धाम्बुधैर्जातः शार्ङ्गदेवः सुधाकरः । उपर्युपरि सर्वान्यः सदौदार्यस्फुरत्करः ॥ कृतगुरुपदसेवः प्रीणिताशेषदेवः कलितसकलशास्त्रप्रीणिताशेषपात्रः । जगति विततकर्तिर्मन्मथोदारमूर्तिः प्रचुरतरविवेकः शार्ङ्गदेवोऽयमेकः ॥ नानास्थानेषु संभ्रान्ता परिश्रान्ता सरस्वती सहवासप्रिया शश्वद्विश्राम्यति यदालये ॥ स विनोदैकरसिको भाग्यवैदग्ध्यभाजनम् । धनदानेन विप्राणामातः संहृत्य शाश्वतीः ॥ जिज्ञासूनां च विद्याभिर्गदार्तानां रसायनैः । अधुनाखिललोकानां तापत्रयजिहीर्षया ॥
For Private and Personal Use Only
8747