SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8711 श्रीविश्वनाथकविराजकृतिप्रणीतं साहित्यदर्पणमतिस्थगितप्रमेयम् । श्रीमद्विधाय चरणं शरणं गुरूणां यत्नेन रामचरणो विवृणोति विप्रः । यः परः परगुणप्रकाशने लब्धवर्णनिकरो जयत्यसौ । दोषगानरचिताघसञ्चया यात्वधः पिशुनराजिरञ्जसा ।। समग्रसिद्धान्तग्रहव्यग्रमनसामनभिमते प्रकटदोषप्रकरविघटितादरकाव्यादिनिरूपणे सत्यपि अलङ्कारग्रन्थनिकरे तेषामभीष्टमदुष्टकाव्यादिनिरूपणमव्याहतराद्धान्तसन्तानमलङ्कारग्रन्थमारम्भ(भ)माणः प्रथमकारिकायाः सरस्वत्याराधनप्रयुक्तस्वार्थनिर्वाहप्रयुक्तिपरतां प्रकाशयितुमवतरणिकां स्वयमेव ग्रन्थकृदाहग्रन्थारम्भ इति । ग्रन्थस्य महावाक्यविशेषस्य आरम्भे आरम्भस्य प्राक्काले आद्यकृतिरूपस्यारम्भस्य मङ्गलाचरणाधिकरणत्वबाधादियं लक्षणा तत्प्रयोजनश्च मङ्गलारम्भयोरव्यवहितत्वबोधः । केचित्त आरम्भे भाविनि सतीत्यर्थ इत्याहुस्तन्न । End: वस्तुतस्तु मुखचन्द्रं पश्यामीत्यादौ यथा समासद्वयसम्भवात् सन्देहः, तथात्रापि महिअसामीइएस्विति(?) प्राकृतमोनिशब्दद्वयसम्भवात् सन्देह एवेत्यवध्येयम् । एवञ्च एकपदवृत्तिसङ्करस्योदाहरणं संसारध्वान्तविध्वंसहंस इत्याघवगन्तव्यम् । यथा वा मनो विद्धं सरोजाक्षि स्मरशक्तया सुनिर्भरम् । सा चेद्विसृजते गाढं स्वास्थ्यमालम्बते खलु ॥ इत्यायुदाहरणमुन्नेयमिति ॥ Colophon : इति साहित्यदर्पणविवृत्तौ दशमः प्रकाशः ॥ अक्षिपक्षरसचन्द्रसमिते हायने शकवसुन्धरापतेः । श्रीलरामचरणाग्रजन्मना दर्पणस्य विवृतिः प्रकाशिता ॥ दोष कञ्चन वीक्ष्य सूक्ष्ममतयो द्वित्राश्शपन्त्यत्र चेत् तन्मां न व्यथयेद्गुरोरपि गिरो निर्दूषणा दुर्वचाः । छात्राणां मतिमादधाति यदसौ गूढार्थसन्दीपनादानन्दं वितनोति यद्गुणविदां तेनास्म्यमोघश्रमः ॥ मन्मानसाम्बुजद्वन्द्वे सेव्यमानं मुनीश्वरैः । वान्छाकल्पतरुं वन्दे रामचन्द्रपदद्वयम् ॥ 647 For Private and Personal Use Only
SR No.020207
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 22
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages204
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy