________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8698
A DESCRIPTIVE CATALOGUE OF
A work dealing with the delineation of Rasas or poetic sentiments, such as Srigāra, Vira, Hasya, etc., in poetic compositions especially in Sravyakāvya as opposed to Driyakavya : by Rudrata. The work has been printed in the Kávyamåla Series. Contains the following subjects :--
१. सम्भोगशृङ्गार. २. विप्रलम्भशृङ्गार.
३. हास्यादिरसनिरूपण. Beginning :
शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिरुत्फणी (च) भयकृन्मू-द्भुतस्तुङ्गया ।
रौद्रो दक्षविमर्दने च हसकृन्नमः प्रशान्तश्चिरा
दित्थं सर्वरसात्मकः पशुपतिः भूयात् स वो भूतये ॥ आख्यातनामरचनाचतुरश्रसन्धिसद्धात्वलङ्कतिगुणं सरसं सुवृत्तम् । आसेदुषामहि दुवं(पि दिवं) कविपुङ्गवानां तिष्ठत्यखण्डमिह काव्यमिदं शरीरम् ।। काव्ये शुभे विरचिते खलु नोखलेभ्यः कश्चित् गुणो भवति यद्यपि सम्प्रतीह । कुर्यात्तथापि सुजनार्थमिदं यतः किं यूकाभयेन परिधानविमोक्षणं स्यात् ॥
सानन्दप्रमदाकटाक्षविशिखैर्येषां न भिन्नं मनो यैस्संसारसमुद्रपातविधुरेष्वन्येषु पोतायितम् । यैर्निस्सीमसरस्वतीविलसितं द्वित्रैः पदैरसंहृतं तेषामप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥ प्रायो नाट्यं प्रति प्रोक्ता भरताचै रसस्थितिः । यथामति मया त्वेषां काव्यं प्रति निगद्यते ॥
तस्माद्यनेन कर्तव्यं काव्यं रसनिरन्तरम् ।। अन्यथा शास्त्रवत्तत्स्यात् गोष्ठीषद्वेगवादकम् ।। शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताच नव काव्ये रसाः स्मृताः ॥ रतिहासश्च शोकश्च क्रोधोत्साही भयं तथा । जुगुप्साविस्मयशमाः स्थायीभावाः प्रकीर्तिताः ॥
For Private and Personal Use Only