________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8691
दृष्ट्वाथो दयितां समीरणभुवे तां दित्सतीमीक्षया
सप्रेम स्मितमादिशन् दिशतु वः श्रेयो रघूणां पतिः ॥ किंच
मृदुचरणोल्लसद्रुचिरनूपुर (किङ्किणिझं) कृतिः कृती गुरुमणिमेखलाविविधरत्नमहामकुटाङ्गदाञ्चितः । पटुखरशासनो घननिजात्मरुचिः कनकोज्ज्वलाम्बरो
वररविवंशजस्तव मुदेऽस्तु सदा जनकात्मजाविभुः ।। अत्र चम्पकावृत्ते प्रमिताक्षरा द्रुतविलम्बिताख्यवृत्तद्वयं निगूढं द्रष्टव्यम् ।
श्रीब्रह्मदेशाभिधमग्रहारमधिष्ठितो वेदविदां वरिष्ठः ।
श्रीकालहस्तीश्वरयज्ववर्यश्चक्रे स्फुटं भागवतस्य टीकाम् ॥ तस्य
विख्यातनारायणवासुदेवश्रीकृष्णसंज्ञास्तनया बभूवुः ।
विरिञ्चवैकुण्ठहरावतारान् विज्ञानिनो यान् विबुधा वदन्ति ॥ सत्र------ वासुदेवसुमतेस्तनूभवः कच्छपेश्वरमग्वीति विश्रुतः । सन्तनोमि रसरूपणं नवं लालनीयमखिलैबुधैरहम् ।। भ्रमर इव मरन्दं पुष्पपुले विचिन्वन् कृतिषु बहुषु सारं सङ्ग्रहेण ब्रवीमि । सरसविबुधचेतोरञ्जनार्थ रसानामनुगुणबहुभावप्रौढबन्धं प्रबन्धम् ।।
विरसमनसामेषा तोषं कृतिन करोति चेत् स(रसहृद)यास्सन्तो गृह्णन्त्यमत्सरदूषिताः । सकलनृपतिश्लाघ्यं क्षौमाम्बरं हि दिगम्बरक्षपणकजनप्रीत्यै नोचेन्न त(स्य भवे)त् क्षतिः ॥ शृङ्गारवीरादिनिरूपणेषु कृताविहोदाह(र)णीक्रियन्ते ।
श्रीबोम्मभूपालतदीययोधतद्वैरिणो वैरिवधूजनाश्च ।। प्रथमन्तावद्रसोपादानभूतानां रत्यादीनामुत्पत्तिर्वर्ण्यते
लोके लावण्यसंयुक्तां तारुण्यरुचिभूषिताम् । कुशलां कुलजां तन्वी सुविलासां शुचिस्मिताम् । सुकेशी सुध्रुवं दृष्ट्वा श्रुत्वा वा दूतिकामुरवात् । कुलीनस्सत्त्वसम्पन्नः कलाविकान्तविग्रहः ॥
For Private and Personal Use Only